This page has been fully proofread once and needs a second look.

<page>
<ignore>

 
</ignore>
<ignore>
ईशाद्युपनिषत्सु -
 
</ignore>
<title text="START">
तेजोविन्दूपनिषत् ॥ ३९ ॥
 
</title>
<verse>
यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।

तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥
 
</verse>
<p>
ॐ सह नाववत्विति शान्तिः ॥
 
[ अध्या० ●
 
</p>
<p merge-next="true">
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदि संस्थितम् । आणवं शांभवं शान्
तं
स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्य-

यम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥ यताहारो जित -

क्रोधो जितसङ्गो जितन्द्रियः । निर्द्वन्द्वो निरहंकारो निराशीरपरिग्रहः ॥ ३

अगम्यागमकर्ता यो गम्यागमनमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा

हंस उच्यते ॥ ४ ॥ परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला

सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५ ॥ त्रिवक्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जि-

तम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६ ॥ उपाधिरहि
तं
स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसंघातं पदाच्च्युतम् ॥ ७ ॥

अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं

ध्रुवमच्युतम् ॥ ८ ॥ तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं

चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९ ॥ अशून्यं शून्यभावं तु शून्या-

तीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १० ॥

सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं

विदुः ॥ ११ ॥ मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं

दर्पं कामं क्रोधं च किल्बिषम् ॥ १२ ॥ शीतोष्णे क्षुत्पिपासे च संकल्पक-

विकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् ॥ १३ ॥ न भयं न

सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम्

॥ १४ ॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्

देहसाम्यं च दृकूक्स्थितिः ॥ १५ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।

आत्मध्यानं समाधिश् प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६ ॥ सर्वं ब्रह्मेति वै ज्ञाना-

दिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७ ॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते

बुधैः ॥ १८ ॥ त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९ ॥ यस्मा-
 
</p>
</page>