2026-02-17 03:22:49 by ambuda-bot
This page has not been fully proofread.
ર
ईशाद्युपनिषत्सु -
तेजोविन्दूपनिषत् ॥ ३९ ॥
यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।
तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥
ॐ सह नाववत्विति शान्तिः ॥
[ अध्या० ●
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदि संस्थितम् । आणवं शांभवं शान्त
स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्य-
यम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥ यताहारो जित -
क्रोधो जितसङ्गो जितन्द्रियः । निर्द्वन्द्वो निरहंकारो निराशीरपरिग्रहः ॥ ३ ॥
अगम्यागमकर्ता यो गम्यागमनमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा
हंस उच्यते ॥ ४ ॥ परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला
सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५ ॥ त्रिवक्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जि-
तम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६ ॥ उपाधिरहित
स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसंघातं पदाच्युतम् ॥ ७ ॥
अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं
ध्रुवमच्युतम् ॥ ८ ॥ तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं
चिन्मयात्मानं ययोम परमं स्थितम् ॥ ९ ॥ अशून्यं शून्यभावं तु शून्या-
तीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १० ॥
सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं
विदुः ॥ ११ ॥ मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं
दर्पं कामं क्रोधं च किल्बिषम् ॥ १२ ॥ शीतोष्णे क्षुत्पिपासे च संकल्पक-
विकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् ॥ १३ ॥ न भयं न
सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्राह्यं ब्रह्म तत्परम्
॥ १४ ॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्व
देहसाम्यं च दृकूस्थितिः ॥ १५ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
आत्मध्यानं समाधिश्व प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६ ॥ सर्वं ब्रह्मेति वै ज्ञाना-
दिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७ ॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते
बुधैः ॥ १८ ॥ त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९ ॥ यस्मा-