2026-02-17 03:22:48 by ambuda-bot
This page has not been fully proofread.
वज्रसूचिकोपनिषत् ॥ ३८ ॥
२६३
जीवस्यैकरूपत्वात् एकस्यापि कर्मवश । दनेक देहसंभवात् सर्वशरीराणां जीव-
स्यैकरूपत्वाच्च । तस्मान्न जीवो ब्राह्मण इति । तर्हि देहों ब्राह्मण इति चेत्तन्न ।
आचाण्डालादिपर्यन्तानां मनुष्याणां पाञ्चभौतिकत्वेन देहस्यैकरूपत्वाजरामर -
धर्माधर्मादिसाम्य दर्शनाद्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णः
शूद्रः कृष्णवर्ण इति नियमाभावात् । पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्या-
दिदोषसंभवाञ्च्च । तस्मान्न देहो ब्राह्मण इति ॥ तर्हि जातिब्राह्मण इति चेत्तन्न !
तत्र जात्यन्तरजन्तुष्वने कजातिसंभवा महर्षयो बहवः सन्ति । ऋष्यशृङ्गो
मृग्याः, कौशिकः कुशात्, जाम्बूको जम्बूकात्, वाल्मीको वल्मीकात्, व्यासः
कैवर्त कन्यकायाम्, शशष्टष्ठात् गौतमः, वसिष्ठ उर्वश्याम्, अगस्त्यः कलशे
जात इति श्रुतत्वात् । एतेषां जात्या विनाप्य ज्ञानप्रतिपादिता ऋषयो
'बहवः सन्ति । तस्मान्न जातिर्ब्राह्मण इति ॥ तर्हि ज्ञानं ब्राह्मण इति चेत्तन्न ।
क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति । तस्मान्न ज्ञानं ब्राह्मण
इति ॥ तर्हि कर्म ब्राह्मण इति चेत्तन्न । सर्वेषां प्राणिनां प्रारब्धसंचितागामि-
कर्मसाधर्म्य दर्शनात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मान्न
कर्म ब्राह्मण इति ॥ तर्हि धार्मिको ब्राह्मण इति चेत्तन्न । क्षत्रियादयो हिर-
दातारो बहवः सन्ति । तस्मान्न धार्मिको ब्राह्मण इति ॥ तर्हि को वा
ब्राह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भा-
वेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पा-
धारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्बहिश्चाकाशवदनुस्यूतमखण्डानन्द-
स्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतलाम लकवर साक्षाद-
परोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भावमात्सर्य-
तृष्णाशामोहादिरहितो दम्भाहंकारादिभिरसंस्पृष्टचेता वर्तत एवमुक्तलक्षणो
यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः । अन्यथा हि
ब्राह्मणत्वसिद्धिर्नास्त्येव । सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदात्मानं
सच्चिदानन्दं ब्रह्म भावयेदित्युपनिषत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति वज्रसूच्युपनिषत्समाप्ता ॥ ३८ ॥