This page has not been fully proofread.

२६०
 
- ईशाद्युपनिषत्सु -
 
न्युपदिशेत्सषडङ्गानि देशिकः । केवलं नहि वाक्यानि ब्रह्मणो वचनं
यथा ॥ १५ ॥ ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक ।
मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६ ॥ ततो ब्रह्मोपदिष्टं वै सच्चि -
दानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७ ॥ यो
वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृति लीनस्य यः परः स
महेश्वरः ॥ १८ ॥ उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिप-
त्येशं त्यक्ताशेषपरिग्रहः ॥ १९ ॥ परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रत्र-
जन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २० ॥ अनुव्रजन्नाजुहाव पुत्रविश्लेष-
कातरः । प्रतिने दुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१ ॥ तच्छ्रुत्वा सकला-
कारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥२२॥
यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्रुते
साक्षात्कैवल्यमक्षुत इत्युपनिषत् ॥
 
सह नाववत्विति शान्तिः ॥
 
इति यजुर्वेदीय शुकरहस्योपनिषत्समाप्ता ॥
 
वज्रसूचिकोपनिषत् ॥ ३८ ॥
 
यज्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् ।
तत्रैपदब्रह्मत रवमहमस्मीति चिन्तये ॥
 
ॐ आप्यायन्त्विति शान्तिः ॥
 
चित्सदानन्दरूपाय सर्वधीवृत्तिसाक्षिणे ।
नमो बेदान्तवेद्याय ब्रह्मणेऽनन्तरूपिणे ॥
 
ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणः
ज्ञानचक्षुषाम् ॥ १ ॥ ब्रह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां
ब्राह्मण एव प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् । तत्र चोद्यमस्ति को
वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं ज्ञानं किं कर्म किं धार्मिक
इति । तत्र प्रथमो जीवो ब्राह्मण इति चेत्तन । अतीतानागतानेकदेहानां