This page has been fully proofread once and needs a second look.

<page>
<ignore>
२५२
 
</ignore>
<ignore>
ईशाद्युपनिषत्सु -
 
</ignore>
<title>
मन्त्रिकोपनिषत् ॥ ३४ ॥
</title>
<verse>
स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।

मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥
</verse>
<p>
ॐ पूर्णमद इति शान्तिः ॥
 
</p>
<p>
ॐ अष्टपादं शुचिं हंसं त्रिसूत्र मणुमव्ययम् । त्रिवर्त्मानं तेजसोsहं सर्वतः -

पश्यन्न पश्यति ॥ १ ॥ भूतसंमोहने काले भिन्ने तमसि वैखरे । अन्तः

पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ अशक्यः सोऽन्यथा दृद्रष्टुं ध्यायमानः

कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३ ॥ ध्यायतेऽध्यासिता

वेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥ ४॥

गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकाम-

दुधाघा विभोः ॥ ५ ॥ पिबन्त्येनामविषया मविज्ञातां कुमारकाः । एकस्तु पिबते

देव: स्वच्छन्दोऽत्र वशानुगः ॥ ६ ॥ ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसह-

द्वि
भुः । सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वभिः ॥ ७ ॥ पश्यन्त्यस्यां

महात्मानः सुवर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः

॥ ८ ॥ शंसन्तमनुशंसन्ति बहृह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत्साम सप्त-

वैधैस्तु गीयते ॥ ९ ॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा
ते

ह्येते ह्
यथर्वाणो भृगूत्तमाः ॥ १० ॥ सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलि -

तस्तथा । अनङ्ग्राड्वान्नोहितोच्छिष्टः पश्यन्ते बहुविस्तरम् ॥ ११ ॥ कालः प्राणश्च .

भगवान्मृत्युः शर्वो महेश्वरः । उग्रो भवश्च रुद्रश्व ससुरः सासुरस्तथा ॥१२॥

प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंस्तुत्यैरर्वविदितै-

र्
विभुः ॥ १३ ॥ तं षड्विंशक इत्येते सप्तविंशं तथापरे । पुरुषं निर्गुणं सांख्य-

मथर्वशिरसो विदुः ॥ १४ ॥ चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । अद्वै
तं
द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५ ॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्ति

ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६ ॥ यस्मि -

न्
सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे

यथा ॥ १७ ॥ यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति

व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८ ॥ क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते

पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनःपुनः ॥ १९ ॥ ब्रह्म ब्रह्मेत्यथा-

यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः

लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥
 
</p>
<p>
ॐ पूर्णमद इति शान्तिः ॥
 
</p>
<trailer>
इति यजुर्वेदीयमन्त्रिकोपनिषत्समाप्ता ॥ ३४ ॥
 
</trailer>
</page>