This page has not been fully proofread.

२५२
 
ईशाद्युपनिषत्सु -
 
मन्त्रिकोपनिषत् ॥ ३४ ॥
स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।
मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥
ॐ पूर्णमद इति शान्तिः ॥
 
ॐ अष्टपादं शुचिं हंसं त्रिसूत्र मणुमव्ययम् । त्रिवर्त्मानं तेजसोsहं सर्वतः -
पश्यन्न पश्यति ॥ १ ॥ भूतसंमोहने काले भिन्ने तमसि वैखरे । अन्तः
पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ अशक्यः सोऽन्यथा दृष्टुं ध्यायमानः
कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३ ॥ ध्यायतेऽध्यासिता
वेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥ ४॥
गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकाम-
दुधा विभोः ॥ ५ ॥ पिबन्त्येनामविषया मविज्ञातां कुमारकाः । एकस्तु पिबते
देव: स्वच्छन्दोऽत्र वशानुगः ॥ ६ ॥ ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसह-
भुः । सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वभिः ॥ ७ ॥ पश्यन्त्यस्यां
महात्मानः सुवर्ण पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः
॥ ८ ॥ शंसन्तमनुशंसन्ति बहृचाः शास्त्रकोविदाः । रथन्तरं बृहत्साम सप्त-
वैस्तु गीयते ॥ ९ ॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा
ते यथर्वाणो भृगूत्तमाः ॥ १० ॥ सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलि -
तस्तथा । अनङ्ग्रान्नोहितोच्छिष्टः पश्यन्ते बहुविस्तरम् ॥ ११ ॥ कालः प्राणश्च .
भगवान्मृत्युः शर्वो महेश्वरः । उग्रो भवश्च रुद्रश्व ससुरः सासुरस्तथा ॥१२॥
प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंस्तुत्यैरधर्वविदितै-
विभुः ॥ १३ ॥ तं षड्विंशक इत्येते सप्तविंशं तथापरे । पुरुषं निर्गुणं सांख्य-
मथर्वशिरसो विदुः ॥ १४ ॥ चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । अद्वैत
द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५ ॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्ति
ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६ ॥ यस्मि -
सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे
यथा ॥ १७ ॥ यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति
व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८ ॥ क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते
पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनःपुनः ॥ १९ ॥ ब्रह्म ब्रह्मेत्यथा-
यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः
लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥
 
ॐ पूर्णमद इति शान्तिः ॥
 
इति यजुर्वेदीयमन्त्रिकोपनिषत्समाप्ता ॥ ३४ ॥