2026-02-19 06:19:06 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>गर्भोपनिषत् ॥ १७ ॥
</ignore>
<ignore>६४९
</ignore>
<p>परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरात्ततम् । तद्विप्रासो विपन्य-
वो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनं
बेदानुशासनं
वेदानुशासनं वेदानुशासनमिति ॥ ५ ॥ ॐ आप्यायन्त्विति शान्तिः ॥
</p>
<trailer text="END">इत्यथर्ववेदीयारुणिकोपनिषत्समाप्ता ॥ १६ ॥
</trailer>
<title text="START">गर्भोपनिषत् ॥ १७ ॥
य</title>
<p>यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥
</p>
<p>ॐ सह नाववत्विति शान्तिः ॥
</p>
<p>ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् ॥ तत्सप्तधातु त्रिमलं
द्वियोनि चतुर्विधाहारमयं शरीरम् ॥ भवति पञ्चात्मकमिति कस्मात्, पृथिव्या-
पस्तेजोवायुराकाश मित्यस्मिन्पञ्चात्मके शरीरे । का पृथिवी का आपः किं
तेजः को वायुः किमाकाशम् । तत्र यत्कठिनं सा पृथिवी यद्रवं ता आपो यदुष्णं
तत्तेजो यत्संचरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ तत्र पृथिवी
नाम धारणे आपः पिण्डीकरणे तेजः प्र<ref>१</ref>काशने वायुर्व्यूहने आकाशमवकाश-
प्रदाने ॥ पृथुस्तु श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने
नासिकाऽऽघ्राणे उपस्थश्वानन्दनेऽपानमुत्सर्गे बुद्धध्या बुद्ध्यति मनसा संकल्पयति
वाचा वदति ॥ षडाश्रयमिति कस्मात्, मधुराम्ललवणतिक्तकटुकषायरसा-
न्विन्दते ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवत निषादाश्चेति । इष्टानिष्टा शब्द-
संज्ञाप्रणिधानाद्दशविधा भवन्ति ॥ १ ॥ शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः
पाण्डुर इति ॥ सप्तधातुकमिति कस्मात्, यथा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥
परस्परं सौम्यगुणत्वात्पद्षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदों
दो
मेदसः स्त्रावा नाम्नोsऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादा-
वर्तते गर्भेभो हृदिव्यवस्थानीति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने
वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ २ ॥ ऋतुकाले संप्रयोगादेक-
रात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण:
पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः संपद्यते मास
-
त्रयेण पादप्रदेशो भवति ॥ अथ चतुर्थे मासेऽङ्गुल्यजठरकटिप्रदेशो भवति ॥
</p>
<footnote>१ रूपदर्शने.
</footnote>
</page>
<ignore>गर्भोपनिषत् ॥ १७ ॥
<ignore>६४९
<p>परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरा
वो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनं
बेदानुशासनं
वेदानुशासनं वेदानुशासनमिति ॥ ५ ॥ ॐ आप्यायन्त्विति शान्तिः ॥
<trailer text="END">इत्यथर्ववेदीयारुणिकोपनिषत्समाप्ता ॥ १६ ॥
<title text="START">गर्भोपनिषत् ॥ १७ ॥
य
<p>यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥
<p>ॐ सह नाववत्विति शान्तिः ॥
<p>ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् ॥ तत्सप्तधातु त्रिमलं
द्वियोनि चतुर्विधाहारमयं शरीरम् ॥ भवति पञ्चात्मकमिति कस्मात्, पृथिव्या-
पस्तेजोवायुराकाश
तेजः को वायुः किमाकाशम् । तत्र यत्कठिनं सा पृथिवी यद्रवं ता आपो यदुष्णं
तत्तेजो यत्संचरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ तत्र पृथिवी
नाम धारणे आपः पिण्डीकरणे तेजः प्र<ref>१</ref>काशने वायुर्व्यूहने आकाशमवकाश-
प्रदाने ॥ पृथुस्तु श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने
नासिकाऽऽघ्राणे उपस्थश्वानन्दनेऽपानमुत्सर्गे बुद्
वाचा वदति ॥ षडाश्रयमिति कस्मात्, मधुराम्ललवणतिक्तकटुकषायरसा-
न्विन्दते ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवत
संज्ञाप्रणिधानाद्दशविधा भवन्ति ॥ १ ॥ शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः
पाण्डुर इति ॥ सप्तधातुकमिति कस्मात्, यथा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥
परस्परं सौम्यगुणत्वात्
मेदसः स्त्रावा नाम्नो
वर्तते गर्
वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ २ ॥ ऋतुकाले संप्रयोगादेक-
रात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण