This page has not been fully proofread.

ईशाद्युपनिषत्सु -
 
आरुणिकोपनिषत् ॥ १६ ॥
आरुणिकाख्योपनिषत्ख्यात संन्यासिनोऽमलाः ।
यत्प्रबोधाद्यन्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥
ॐ आप्यायन्त्विति शान्तिः ॥
 
ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गवोवाच । केन भगवन्कर्माण्य-
शेषतो विसृजानीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादी खाँ
यज्ञोपवीतं च यागं च सूत्रं च स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोक महर्लोक-
जनलोकतपोलोकसत्यलोकं चातलपातालवितलसुतलर सातलतलातलमहातल-
ब्रह्माण्डं च विसर्जयेद्दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजे-
दिति ॥ १ ॥ गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकानीनुदरानौ
समारोपयेत् । गायत्री च स्ववाचानौ समारोपयेदुपवीतं भूमावप्सु वा
विसृजेत् । कुटीचरो ब्रह्मचारी कुटुम्त्रं विसृजेत् । पात्रं विसृजेत् । पवित्रं
विसृजेत् । दण्डांश्च लौकिकानींश्च विसृजेदिति होवाच । श्रत ऊर्ध्वममन्त्र-
वदाचरेत् । ऊर्ध्वगमनं विसृजेत् । त्रिसंध्यादौ स्नानमाचरेत् । संधि
समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तये दुपनिषदमावर्त ये दुपनिष-
दमावर्तयेदिति ॥ २ ॥ खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रं ब्रह्म सूत्रमहमेव विद्वां-
त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति
त्रिः कृत्वाऽभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायौजः
सखायोsसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति ।
अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहे दौषधवदशनमाचरेदौषधवद-
शनमाचरेत् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षतो३
हैं रक्षतो हे रक्षत इति ॥ ३ ॥ अथातः परमहंसपरिव्राजकानामासन-
शयनादिकं भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाबुपात्रं दारुपात्रं वा कामक्रोध-
हर्षशेषलोभमोहदम्भ दर्पासूयाममत्वाहंकारादीनपि त्यजेत् । वर्षासु ध्रुव-
शीatset मासानेकाकी यतिश्चरेत् द्वावेव वा चरेद्वावेव वा चरे-
दिति ॥ ४ ॥ खलु वेदार्थ यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् ।
पितरं पुत्रमभ्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्राम
प्रविशन्ति पाणिपात्र मुदरपात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्य-
सेत् ॥ खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमौदुम्बरं दण्ड-
मजिनं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः