2026-02-19 06:07:36 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हंसोपनिषत् ॥ १५ ॥
</ignore>
<ignore>१४७
</ignore>
<p>यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमत्येति । गुदमवष्टभ्या-
धाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहत -
मतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्धंध्रं ध्यायन् त्रिमात्रोऽहमि-
त्येवं सर्वदा ध्यायन्नथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशं स
वै ब्रह्म परम रमात्मेत्युच्यते ॥ १ ॥ अथ हंस ऋषिः, अव्यक्तगायत्री छन्दः ।
परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कील-
कम् । षट्संख्यया अहोरात्रयोरेकविंशतिसहस्राणि षदशतान्यधिकानि भव-
न्ति । सूर्याय सोमाय निरञ्जनाय निराभासाय तनुसूक्ष्म प्रचोदयादिति
अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । एवं कृत्वा हृदये-
sष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावोंकारःझिशिरो बिन्दुस्तु नेत्रं
मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्वामिचाग्निश्चोभे पार्श्वे भवतः । पश्यत्यनागा-
रश्च शिष्टोभयपार्श्वे भवतः । एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं
व्याप्तम् । तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्या-
दयो भवन्ति याम्ये क्रूरे मतिः नैर्ऋत्ये पापे मनीषा वारुण्यां क्रीडा वायव्ये
गमनादौ बुद्धिः सैौम्ये रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे
जाग्रदवस्था कर्णिकायां स्वतंप्नं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो नादे
लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते । एवं सर्व
वं
हंसवशात्तस्मान्मनो विचार्यते । स एव जपकोढ्ट्यां नादमनुभवति एवं
सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः ।
घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थम् । पञ्चमस्तचीत्त्रीनादः । षष्ठस्तालनादः । स-
स
प्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ।
नवमं परित्यज्य दशममेवाभ्यसेत् । प्रथमे चिञ्चिणीगात्रं द्वितीये गानभक्षञ्ज-
नम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ पञ्चमे स्रवते तालु षष्ठेऽमृ-
तनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥ अदृश्यं नवमे देहं
दिव्यचक्षुस्तथाऽमलम् । दशमं परमं ब्रह्म भवेद्रह्मात्मसंनिधौ ॥ तस्मिन्मनो
विलीयते मनसि संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्व-
त्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥
ॐ वेदप्रवचनं वेदप्रवचनमिति ॥ २ ॥ ॐ पूर्णमद इति शान्तिः ॥
</p>
<trailer text="END">इत्यथर्ववेदे हंसोपनिषत्समाप्ता ॥ १५ ॥
</trailer>
</page>
<ignore>हंसोपनिषत् ॥ १५ ॥
<ignore>१४७
<p>यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमत्येति । गुदमवष्टभ्या-
धाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहत
मतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्
त्येवं सर्वदा ध्यायन्नथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशं स
वै ब्रह्म पर
परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कील-
कम् । षट्संख्यया अहोरात्रयोरेकविंशतिसहस्राणि षदशतान्यधिकानि भव-
न्ति । सूर्याय सोमाय निरञ्जनाय निराभासाय तनुसूक्ष्म प्रचोदयादिति
अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । एवं कृत्वा हृदये-
sष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावोंकारः
मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्
रश्च शिष्टोभयपार्श्वे भवतः । एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं
व्याप्तम् । तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्या-
दयो भवन्ति याम्ये क्रूरे मतिः नैर्ऋत्ये पापे मनीषा वारुण्यां क्रीडा वायव्ये
गमनादौ बुद्धिः सैौम्ये रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे
जाग्रदवस्था कर्णिकायां स्व
लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते । एवं सर्
हंसवशात्तस्मान्मनो विचार्यते । स एव जपको
सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः ।
घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थम् । पञ्चमस्त
स
प्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ।
नवमं परित्यज्य दशममेवाभ्यसेत् । प्रथमे चिञ्चिणीगात्रं द्वितीये गानभ