2026-02-17 03:21:59 by ambuda-bot
This page has not been fully proofread.
१४६
ईशाद्युपनिषत्सु -
प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिब्राड् विवर्णवासा मुण्डोsपरि-
ग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ॥ यथातुरः स्यान्मनसा वाचा
वा संन्यसेत् ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमे-
वैष भगवन्निति वै याज्ञवल्क्यः ॥ ५ ॥
इति जाबालोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥
तत्र परमहंसा नाम संवर्त कारुणिश्वेतकेतु दुर्वासऋभुनिदाघजडभरतदत्तात्रे-
यरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रि-
दण्डं कमण्डलुं शिक्यं पात्रं जलपविन्नं शिखां यज्ञोपवीतं चेत्येतत्सर्व भूः
स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ यथा जातरूपधरो निर्द्वन्द्वो निष्परि-
ग्रहस्तत्तत्वब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले
विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृण-
कूटवल्मीकवृक्ष मूल कुलालशालाग्निहोत्र नदी पुलिन गिरिकुहरकन्दरको टर निर्झर-
स्थण्डिलेष्वनिकेतवास्यप्रयतो निर्ममः शुक्रुध्यानपरायणो ऽध्यात्मनिष्ठोऽशुभ-
कर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसो
नामेति ॥ ६ ॥
इति जाबालोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ॥ १४ ॥
हंसोपनिषत् ॥ १५ ॥
हंसाख्योपनिषत्प्रोक्तनादादिर्यत्र विश्रमेत् ।
तदाधारं निराधारं ब्रह्ममात्र महं महः ॥
ॐ पूर्णमद इति शान्तिः ॥
ॐ गौतम उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो
हि केनोपायेन जायते ॥ १ ॥ सनत्सुजात उवाच । विचार्य सर्ववेदेषु मतं
ज्ञात्वा पिनाकिनः । पार्वत्या कथितं तवं शृणु गौतम तन्मम ॥ २ ॥ अना-
ख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । हंसस्य गतिविस्तारं भुक्तिमुक्तिफल-
प्रदम् ॥ ३ ॥ अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे शान्ताय
दान्ताय गुरुभक्ताय । हंस हंसेति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते ॥