This page has been fully proofread once and needs a second look.

<page>
<ignore>
१४४

</ignore>
<ignore>
ईशाद्युपनिषत्सु -

[ खण्ड: १

</ignore>

पादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्ण: । अहं विजानामि

विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ २१ ॥ चेदैरनेकैरहमेव वेद्यो

वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रि

यबुद्धिरस्ति ॥ २२ ॥ न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न

चाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३ ॥

<trailer>
इति कैवल्योपनिषदि प्रथमः खण्डः ॥ १ ॥

</trailer>
<metadata>div.n = 2</metadata>

समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् । यः शतरुद्वीय-

मधीते सोऽभिग्निपूतो भवति स वायुपूतो भवति स भात्मपूतो भवति स

सुरापानात्पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात्पूतो भवति

स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति अत्याश्रमी सर्वदा

सकृद्वा जपेत् ॥ अनेन ज्ञानमामोप्नोति संसारार्णवनाशनम् । तस्मादेवं

विदिबैत्वैनं कैवल्यं फलमश्रुनुते कैवल्यं फलमश्रुनुत इति ॥ २४ ॥

<trailer>
इति कैवल्योपनिषदि द्वितीयः खण्डः ॥ २ ॥

</trailer>
<trailer>
ॐ सह नाववत्विति शान्तिः ॥
</trailer>
<trailer text="END">
इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥ १३ ॥

</trailer>
<title text="START">
जाबालोपनिषत् ॥ १४ ॥

</title>
<verse>
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।

वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
</verse>

ॐ भद्रं कर्णेभिरिति शान्तिः ॥

<metadata>div.n = 1</metadata>

ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां

भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां

ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै

कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ त्र हि जन्तोः

प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति

तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चे देवमेवैतद्याज्ञवल्क्यः ॥ १ ॥

<trailer>
इति प्रथमः खण्डः ।

</trailer>
<metadata>div.n = 2</metadata>

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं

विजानीयामिति ॥ स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-

</page>