2026-02-17 03:21:58 by ambuda-bot
This page has not been fully proofread.
१४४
ईशाद्युपनिषत्सु -
[ खण्ड: १
पादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्ण: । अहं विजानामि
विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ २१ ॥ चेदैरनेकैरहमेव वेद्यो
वेदान्तद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रि
यबुद्धिरस्ति ॥ २२ ॥ न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न
चाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३ ॥
इति कैवल्योपनिषदि प्रथमः खण्डः ॥ १ ॥
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् । यः शतरुद्वीय-
मधीते सोऽभिपूतो भवति स वायुपूतो भवति स भात्मपूतो भवति स
सुरापानात्पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात्पूतो भवति
स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति अत्याश्रमी सर्वदा
सकृद्वा जपेत् ॥ अनेन ज्ञानमामोति संसारार्णवनाशनम् । तस्मादेवं
विदिबैनं कैवल्यं फलमश्रुते कैवल्यं फलमश्रुत इति ॥ २४ ॥
इति कैवल्योपनिषदि द्वितीयः खण्डः ॥ २ ॥
ॐ सह नाववत्विति शान्तिः ॥
इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥ १३ ॥
जाबालोपनिषत् ॥ १४ ॥
जाबालोपनिषरख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतत्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वषां
भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां
ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै
कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ भत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चे देवमेवैतद्याज्ञवल्क्यः ॥ १ ॥
इति प्रथमः खण्डः ।
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं
विजानीयामिति ॥ स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-