This page has been fully proofread once and needs a second look.

<page>
<ignore>
खण्ड: १]
 

कैवल्योपनिषत् ॥ १३ ॥
 
</ignore>
<ignore>
१४३
 
</ignore>
<p merge-next="true">ह्म
विद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं

व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १ ॥ तस्मै स होवाच पितामहश्

श्रद्धाभक्तिध्यानयोगादवैहि ॥ २ ॥ न कर्मणा न प्रजया धनेन त्यागेनैके

अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति

॥ ३ ॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते

ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४ ॥ विविक्तदेशे च

सुखासनस्थः शुचिः समग्रीवशिरःशरीरः । अन्त्याश्रमस्थः सकलेन्द्रियाणि

निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५ ॥ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य

मध्ये विशदं विशोकम् । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं

ब्रह्मयोनिम् ॥ ६ ॥ तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।

उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनि-

र्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७ ॥ स ब्रह्मा स शिवः

सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालोऽग्निः स

चन्द्रमाः ॥ ८ ॥ स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं

मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि

चात्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १० ॥ आत्मानमरणि
णिं
कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ११ ॥

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादि-

विचित्र भोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२ ॥ स्वमेप्ने स जीवः सुखदुःख-

भोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोऽभि-

भूतः सुखरूपमेति ॥ १३ ॥ पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति

प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ॥ आधा-

रमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ १४ ॥ एतस्माज्जायते

प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी

॥ १५ ॥ यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं

तत्वमेव त्वमेव तत् ॥ १६ ॥ जाग्रत्स्वप्सुपुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माह-

मिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७ ॥ त्रिषु धामसु यद्भोग्यं भोक्ता

भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८ ॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितंम् । मयि सर्वं लयं याति तद्ब्रह्मा-

द्वयमस्म्यहम् ॥ १९ ॥ अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २० ॥ अपाणि-
 
</p>
</page>