2026-02-19 03:59:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३४२
</ignore>
<ignore>1
</ignore>
<ignore>ईशाद्युपनिषत्सु -
[ खण्ड: १
</ignore>
<p>क्षयम् । एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥ ५ ॥ १ ॥ नैवविचिन्त्यं
न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा
॥ ६ ॥ स्वरेण संघयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावो
नाभाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्रझाब्रह्माह-
मिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं च हेतुवृत्तान्त-
वर्जितम् । अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥ ९ ॥ न निरोधो न
चोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता
॥ १० ॥ २ ॥ एक एवात्मा मन्तव्यो जाग्रत्स्वमप्नसुषुप्तिषु । स्थानत्रयाद्यती-
तस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ घटसंवृतमाकाशं लीय-
माने घटे यथा । घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटव-
द्विविधाकारं भिद्यमानं पुनः पुनः । तद्भग्नं न च जानाति स जानाति च
नित्यशः ॥ १४ ॥ शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भिन्ने तमसि
चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्ष-
रम् । तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥ द्वे विद्ये वेदितव्ये
तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थीस्त्यजेड्द्ग्रन्थ-
मशेषतः ॥ १८ ॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं
लिङ्गिनस्तु गवां यथा ॥ १९ ॥ घृतमिव पयसि निगूढं भूते भूते च वसति
विज्ञानम् । सततं मन्ययितव्यं मनसा मन्धाथनभूतेन ॥ २० ॥ ज्ञाननेत्रं
समादाय चरेद्वह्निमतः परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम्
॥ २१ ॥ सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वनुग्राहकत्वेन तदस्म्यहं
वासुदेवः तदस्म्यहं वासुदेव इति ॥ २२ ॥ ४ ॥ सह नाववत्विति शान्तिः ॥
</p>
<trailer text="END">इत्यथर्ववेदीया ब्रह्मबिन्दूपनिषत्समाप्ता ॥ १२ ॥
</trailer>
<title>कैवल्योपनिषत् ॥ १३ ॥
</title>
<p>कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
कैवल्य गिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥
ॐ सह नाववत्विति शान्तिः ॥
</p>
<p merge-next="true">ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्त्ब्र-
</p>
</page>
<ignore>३४२
<ignore>1
<ignore>ईशाद्युपनिषत्सु -
[ खण्ड: १
<p>क्षयम् । एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥ ५ ॥ १ ॥ नैव
न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा
॥ ६ ॥ स्वरेण संघयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावो
नाभाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्
मिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं च हेतुवृत्तान्त-
वर्जितम् । अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥ ९ ॥ न निरोधो न
चोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता
॥ १० ॥ २ ॥ एक एवात्मा मन्तव्यो जाग्रत्स्व
तस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ घटसंवृतमाकाशं लीय-
माने घटे यथा । घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटव-
द्विविधाकारं भिद्यमानं पुनः पुनः । तद्भग्नं न च जानाति स जानाति च
नित्यशः ॥ १४ ॥ शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भिन्ने तमसि
चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्ष-
रम् । तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥ द्वे विद्ये वेदितव्ये
तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी
मशेषतः ॥ १८ ॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं
लिङ्गिनस्तु गवां यथा ॥ १९ ॥ घृतमिव पयसि निगूढं भूते भूते च वसति
विज्ञानम् । सततं मन्ययितव्यं मनसा मन्
समादाय चरेद्वह्निमतः परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम्
॥ २१ ॥ सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वनुग्राहकत्वेन तदस्म्यहं
वासुदेवः तदस्म्यहं वासुदेव इति ॥ २२ ॥ ४ ॥ सह नाववत्विति शान्तिः ॥
<trailer text="END">इत्यथर्ववेदीया ब्रह्मबिन्दूपनिषत्समाप्ता ॥ १२ ॥
<title>कैवल्योपनिषत् ॥ १३ ॥
<p>कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
कैवल्य
ॐ सह नाववत्विति शान्तिः ॥
<p merge-next="true">ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्
</page>