2026-02-17 03:21:58 by ambuda-bot
This page has not been fully proofread.
३४२
1
ईशाद्युपनिषत्सु -
[ खण्ड: १
क्षयम् । एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥ ५ ॥ १ ॥ नैव विन्त्यं
न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा
॥ ६ ॥ स्वरेण संघयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावो
नाभाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्रझाह-
मिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं च हेतुवृत्तान्त-
वर्जितम् । अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥ ९ ॥ न निरोधो न
चोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता
॥ १० ॥ २ ॥ एक एवात्मा मन्तव्यो जाग्रत्स्वमसुषुप्तिषु । स्थानत्रयायती-
तस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ घटसंवृतमाकाशं लीय-
माने घटे यथा । घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटव-
द्विविधाकारं भिद्यमानं पुनः पुनः । तद्भनं न च जानाति स जानाति च
नित्यशः ॥ १४ ॥ शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भिने तमसि
चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्ष-
रम् । तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥ द्वे विद्ये वेदितव्ये
तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी स्यजेड्रन्थ-
मशेषतः ॥ १८ ॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं
लिङ्गिनस्तु गवां यथा ॥ १९ ॥ घृतमिव पयसि निगूढं भूते भूते च वसति
विज्ञानम् । सततं मन्ययितव्यं मनसा मन्धानभूतेन ॥ २० ॥ ज्ञाननेत्रं
समादाय चरेद्वह्निमतः परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम्
॥ २१ ॥ सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वनुग्राहकत्वेन तदस्म्यहं
वासुदेवः तदस्म्यहं वासुदेव इति ॥ २२ ॥ ४ ॥ सह नाववत्विति शान्तिः ॥
इत्यथर्ववेदीया ब्रह्मबिन्दूपनिषत्समाप्ता ॥ १२ ॥
कैवल्योपनिषत् ॥ १३ ॥
कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
कैवल्य गिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥
ॐ सह नाववत्विति शान्तिः ॥
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्त्र-