This page has been fully proofread once and needs a second look.

<page>
<ignore>ब्रह्मबिन्दूपनिषत् ॥ १२ ॥</ignore>
<ignore>१४१</ignore>
<p>स्वास्य मध्ये स एवाग्निः सलिले संनिविष्टः । तमेव विदित्वाति मृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥ स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकारो
गुणी सर्वविद् यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः सꣳसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे अस्य
जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै । तꣳह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं
प्रपद्ये ॥ १८ ॥ निष्कलं निष्क्रियꣳ शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परꣳ
सेतुं दग्धेन्धनमिवानलम् ॥ १९ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ तपःप्रभावाद्देवप्रसादाच्च
ब्रह्म श्वेताश्वतरोऽथ विद्वान् । अ<ref>१</ref>त्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषि-
सङ्घजुष्टम् ॥ २१ ॥ वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय
दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मन
इति ॥ २३ ॥</p>
<trailer>इति श्वेताश्वतरोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥</trailer>
<p>ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतम-
स्तु मा विद्विषावहै । ॐ<fix> </fix>शान्तिः शान्तिः शान्तिः ॥</p>
<trailer>॥ इति कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषत्संपूर्णा ॥</trailer>
<title text="START">ब्रह्मबिन्दूपनिषत् ॥ १२ ॥</title>
<verse>अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् ।
तदेव हि त्रिपाद्वामचन्द्राख्यं नः परा गतिः ॥</verse>
<p merge-next="true">ॐ सह नाववत्विति शान्तिः ॥ ॐ मनो हि द्विविधं प्रोक्तं शुद्धं
चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १ ॥ मन एव
मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्
॥ २ ॥ यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मान्निर्विषयं नित्यं मनः
कार्यं मुमुक्षुणा ॥ ३ ॥ निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्यु-
न्मनीभावं तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृदि गतं</p>
<footnote>१ अन्त्याश्रमिभ्यः ।</footnote>
</page>