2026-02-17 03:21:57 by ambuda-bot
This page has not been fully proofread.
ब्रह्मबिन्दूपनिषत् ॥ १२ ॥
१४१
स्वास्य मध्ये स एवाभिः सलिले संनिविष्टः । तमेव विदिष्वाति मृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥ स विश्वकृद्विश्वविदाय्मयोनिज्ञः कालकारो
गुणी सर्व विद्यः । प्रधानक्षेत्र ज्ञपतिर्गुणेशः ससारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥ -
स तन्मयो ह्यमृत ईशसंस्था ज्ञः सर्वगो भुवनस्यास्य गोता । य ईशे अस्य
जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥ यो ब्रह्माणं विदधाति पूर्व
यो वै वेदांश्च प्रहिणोति तस्मै । तह देवमात्मबुद्धिप्रकाश मुमुक्षुर्वै शरणमहं
प्रपद्ये ॥ १८ ॥ निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम् । अमृतस्य पर५
सेतुं दग्धेन्धनमिवानलम् ॥ १९ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ तपःप्रभावाद्देवप्रसादाच्च
ब्रह्म श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषि-
सङ्घजुष्टम् ॥ २१ ॥ वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय
दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मन
इति ॥ २३ ॥
इति श्वेताश्वतरोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतम-
स्तु मा विद्विषावहै । ॐशान्तिः शान्तिः शान्तिः ॥
॥ इति कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषत्संपूर्णा ॥
ब्रह्म बिन्दूपनिषत् ॥ १२ ॥
अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् ।
तदेव हि त्रिपाद्वामचन्द्राख्यं नः परा गतिः ॥
ॐ सह नाववत्विति शान्तिः ॥ ॐ मनो हि द्विविधं प्रोक्तं शुद्धं
चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १ ॥ मन एव
मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्
॥ २ ॥ यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मान्निर्विषयं नित्यं मनः
कार्यं मुमुक्षुणा ॥ ३ ॥ निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्यु-
न्मनीभावं तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृदि गतं
१ अन्त्याश्रमिभ्यः ।