This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
प्रथमाश्वासः
 
</ignore>
<verse lang="sa">
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मी कटाक्षैः
 

भूयः श्यामा भुवनजननी देवता सन्निधत्ते ॥
३२</verse>
<verse>
लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्
णं
माभैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघं ।

शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देव हंसै-

र्
हंसीभूतस्स<fix> </fix>खलुभवतामन्ववायाग्रजन्मा ॥
३३</verse>
<verse>
सारास्वादी सवनहद्विषां स्वामिनस्ते स<fix> </fix>देवः

शुद्धं चक्षुः श्रुतिपरिषदां चक्षुषां भागधेयं ।
 

अङ्गीकुर्याद्विनतममृतासारसंवादिभिस्त्वा-
 

माविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥
 

 
१७
 
३२.
 
३३.
 
३४
 
</verse>
<p lang="sa">
लक्ष्म्याः कटाक्षैः अपाङ्गदर्शनैः भूयः अत्यन्तं श्यामा भुवनजननी जगत्कारणमूता

काऽपि वाचामगोचरा देवता वरद इत्यर्थः सन्निधत्ते सन्निधानं करोति ॥
 
}
 
३२.
 
</p>
<p lang="sa">
तस्यां वेद्यां अपूर्वमेघो वर्तते स<fix> </fix>तु त्वद्वंशजः तस्मात् साध्वसम्माकुर्वित्याह-

लक्ष्मीति ॥ तत्र वेद्यां लक्ष्मीरेव विद्युत् तडित् तया ललितं सुन्दरं वपुश्शरीरं

यस्य तथोक्तं । कारुण्येन दयारूपजलेन पूर्णस्तं मरकतशिलावत् मेचकं श्यामलं

मेघे (मेघत्वेननिगीर्णवरदं) वीक्ष्य मा<fix> </fix>भैषीः भीतिं मा<fix> </fix>कुरु त्वादृशैः त्वत्सदृशैः शुद्धैः

देवहंसैः देवश्रेष्ठैः नित्यसूरिभिः परिचितपदः सेवितचरणः हंसीभूतः हंसतयाऽऽ-

विर्भूतः सः मेघः भवतां युष्माकं अन्ववाये वंशे अग्रजन्मा पुरस्ताज्जातः खलु
'

&apos;
हिरण्मयः शकुनिर्ब्रह्मनाम '&apos; इति श्रुतिप्रसिद्धः ॥
 
३३
 
</p>
<p lang="sa">
सारेति ॥ ते तव । स्वामिनः ब्रह्मणः । सवनस्य यज्ञस्य हविषां । सारा-

स्वादी वपाभक्षणशीलः । श्रुतीनां परिषदां समूहानां । शुद्धं निर्दुष्टं । चक्षुः

नयनं '&apos;वेदचक्षुः सनातनः'&apos; इत्युक्तेः । चक्षुषां आश्रितलोचनानां । भागधेयं

भाग्यं सः प्रसिद्धः देवः वरदः विनतं प्रणतं । त्वां । अमृतासारसंवादिभिः अमृ-

तवर्षसदृशैः । आविर्मोदैः आविर्भूतसन्तोषैः । अभिमतवरे इष्टवरविषये स्थूललक्षैः

बहुप्रदैः । कटाक्षैः । अङ्गीकुर्यात् स्वीकुर्यात् ॥
 
३४</p>
<ignore lang="sa">
Hamsa-2
 
</ignore>
</page>