This page has not been fully proofread.

१६
 
हंससन्देशे
 
विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषं
वक्ष्यस्यन्तर्बहिरप परां शुद्धिमक्षेपणीयम् ॥
तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिः
 
दिव्यं कुर्वन्द्रविडविषयं दृश्यते हस्तिशैलः ।
यस्योपान्ते कृतवसतयो यापयित्वा शरीरं
वर्तिष्यन्ते वितमासे पदे वासुदेवस्य धन्याः ॥
सञ्चिन्वाना तरुणतुलसीदामभिस्वामभिख्यां
 
तस्यां वेद्यामनुविदधती शीतलं हव्यवाहम् ।
 
३०
 
३१
 
सितानि प्रकाशितानि अङ्गानि यस्य तथोक्तः । त्वं विगतं अपेतं रजः रजोगुणः
यस्मात्तत् विगतरजः तस्मिन् चित्ते मनसि अशेषं समस्तं विश्वं लोकं व्यञ्जयन्त
प्रकाशयन्ती अक्षेपणीयां अनिवारणीयां परां शुद्धि अन्तः मनसि बहिः शरीरेऽपि
वक्ष्यसि प्राप्स्यसि ॥
 
३०
 
वेगवत्यास्तटे हस्तिशैलो दृश्यते तस्य समीपे वासं कुर्वन्तः चरमकाले देहं
विसृज्य वासुदेवस्य पदे तिष्ठन्तीत्याह । तस्या इति । सौम्य सुन्दर हे हंस
तस्याः वेगवत्याः तीरे सरसिजभुवः धातुः वैतानवेदिः" यागोत्तरवेदिरूपः
हिस्तशैलः करिगिरिः द्रविडानां विषयं देशं दिव्यं प्रशस्तं कुर्वन् दृश्यते यस्य
हस्तिशैलस्य उपान्ते समीपे कृता वसतिः वासो यैस्ते कृतवसतयो जनाः शरीरं
यापयित्वा विसृज्य वितमसि विगततमोगुणे वासुदेवस्य पदे स्थाने ध धन्याः
कृतार्थाः वर्तिष्यन्ते वासं करिष्यन्ति ॥
 
३१
 
उत्तरवेद्यां श्यामपावकरूपेण नारायणो भासत इत्याह । समिति ॥
तरुणीनां सततमम्लानां तुलसीनां दामभिः मालाभिः स्वां स्वीयां अभिख्यां
कान्ति सच्चिन्वाना सम्पादयन्ती तस्यां वेद्यां उत्तरवेद्यां शीतलं (मनिमन्ता-
दिना) अनुष्णं हव्यं वहतीति हव्यवाट् अनिस्तं अनुविदधती अनुकुर्वती भोगस्य
ऐहिक सुखस्य ऐश्वर्यस्य परमपदैश्वर्यस्यच प्रियसहचरैः प्रियसखैः आपादकैरित्यर्थः ।