This page has not been fully proofread.

प्रथमाश्वासः
 
दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यं
कम्पापाथःकमलवनिकाकामुको गन्धवाहः ॥
 
वर्णस्तोमैरिव परिणता सप्तभेदे
 
मान्या मध्येनगरमभितस्सेविता देवताभिः ।
स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनां
वेगासंज्ञां वहति महतीं वल्लभा पद्मयोः ॥
 
तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्ये
 
स्नात्वा सार्धं मुनिभिरनचैस्सम्यगुल्लासिताङ्गः ।
 
१५
 
२८
 
२९
 
स्थितानां कमलानां वनिकायाः समूहस्य कामुकः कामी (अनेनसौरभ्यमुक्तं
गन्धं वहतीति गन्धवाह वायुः दूरात् प्राप्तं आगतं प्रियसखं इष्टमित्रमिव त्वां
अवश्यं उपैष्यति प्राप्स्यति ॥
 
२८
 
अल तव स्वामिनी सरस्वती नदीरूपेण प्रसृता वेगासंज्ञां बिभर्तीत्याह ।
वर्णेति ॥ वर्णस्तोमैः वर्णसमूहैरिव सप्तभेदैः 'शुक्तिकाकनकाशिप्राकम्पापेयाच
मन्जुला । चण्डवेगा' इत्युक्तसप्तप्राकारैः महौघैः महाप्रवाहैः परिणता प्रादुर्भूता
मान्या पूज्या मध्ये नगरस्य मध्येनगरं (अव्ययीभावः) देवताभिः अभितः
उभयतः सेविता स्वच्छेन निर्मलेन स्वादुना मधुरेण च प्रसरेण प्रवाहेन सुभगा
मनोज्ञा कवीनां के जले वीनां पक्षिणां वः युष्माकं स्वामिनी अधिपत्ती
पद्मयोनेः ब्रह्मणः महती सर्वोत्कृष्टा वल्लभा क
'कान्ता सरस्वती वेगासंज्ञा वेगवतीति-
नामधेयं वहति धारयति ॥
 
२९
 
तव तीर्थ ऋषिभिरसह स्नाने कृते सर्वदर्शित्वपर्यन्तशुद्धिस्तत्र भविष्यती-
त्याह । तीर्थ इति ॥ पुंसां पुरुषाणां शमितकलुषे विनाशितपापे सारस्वताख्ये
तत्र तीर्थे वेगवतीतीर्थे । अनघैः निर्दोषैः मुनिभिः सार्धं सह स्नात्वा सम्यक् उल्ला-