हंससंदेशः /72
This page has not been fully proofread.
१४
हंससन्देशे
यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासी
द्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥
तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्ना
जाता मादौ कृतयुगमुखे धातुरिच्छावशेन ।
यद्वीर्थीनां करिगिरिपतेर्वाहवेगावधूतान्
अन्यात्रेणूंस्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥
मन्दाधूतात्तदनु महितो निस्सृतश्च षण्डात्
पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही ।
२६
२७
किर
भूमेः पृथिव्याः उचितविभवं योग्यैश्वर्यभूतं भूषणं आभरणं काञ्चीं काञ्चीनगरं तत्र
सत्यव्रतक्षेत्रे द्रक्ष्यसि । यस्यां कांच्यां नित्यं सदा निहितनयनः न्यस्तकक्षक्षः
हस्तिशैले हस्तिगिरौ अधिवासी अधिवस्तुं शीलवान् द्वन्द्वातीतः सुखदुःखादिद्वन्द्व-
रहितः सत्यकामः यथार्थसङ्कल्पः स पुरुषः प्रास
स पुरुषः प्रसिद्धः परमपुरुषः वरदाख्यो
खलु ॥
मुक्तिक्षेतभूतां काञ्च गत्वा ताम् पुरीं प्रणमेत्याह । तामिति ॥ त्रिदश-
पतयः देवश्रेष्ठाः यस्याः कांच्या वीथ्यः यद्वीथ्यस्तासां करिगिरिपतेः हस्तिगिरिनाथ
वरदस्य वाहस्य अश्वस्य वेगेन अवधूतान् समुद्भूतान् धन्यान् (तदश्वपादस्पर्शात् )
कृतार्थान् रेणून् पांसून् उत्तमाङ्गः शिरोभिः धारयन्ति आदौ कृतयुगस्य मुखे
प्रारम्भे धातुः ब्रह्मणः इच्छावशेन जातां तां प्रसिद्धां नगरी काञ्चीं आसीदन् उप-
गच्छन् (त्वं) भक्त्या नत्रेण नतेन मूर्ध्ना शिरसा प्रणम नमस्कुरु ॥
२७
तत्रागतं त्वां मन्दमारुतोऽपि सेविष्यत इत्याह । मन्देति ॥ तदनु मन्दं
आधूताच्चलितात् । चूतानां षण्डात्समूहात् निःसृतः निर्गतः (अनेन मान्द्यमुक्तं)
महितः पूजितः तस्याः कांच्याः पार्श्वे पश्चिमपार्श्वभागे (विद्यमानस्य) पशुपतेः
एकाम्रनाथाख्यस्य शिवस्य शिरसि (स्थितस्य) चन्द्रस्य नीहारं हिमं ताच्छील्येन
वहतीति तथोक्तः (अनेन शैत्यमक्तं) कम्पायाः कम्पाख्यनद्याः पाथसि जले