हंससंदेशः /71
This page has not been fully proofread.
TEP
प्रथमाश्वासः
निर्विश्यैनां निभृतमनभिव्यक्तमंजुप्रणाद
मन्दाधूतः पुलिनपवनैवंजुलामोदगर्भैः
अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलंघ्यो
बन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥
तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणः
क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्यम् ।
पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवताया-
स्सेतुर्जज्ञे सकलजगतामेकसेतुस्सदेवः ॥
नानारत्नैरुपचितगुणां नित्य सङ्गीतनादां
भूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काचीम् ।
म
१३
२४
२५.
ड
तस्यां नद्यां विश्रम्य गच्छेत्याह । निर्विश्येति ॥ वञ्जुलानां वानीरपुष्पाणां
आमोदगमैः परिमळवद्भिः पुळिनपवनैः सैकतमरुद्भिः मन्दं ईषत् आधूतः कम्पितः
अनभिव्यक्तः अस्पष्टः मग्जुः रम्यः प्रणादः ध्वनिः यस्य तथोक्तः एनां कनकमुख-
राख्यनदीं निभृतं निश्चलं निर्विश्य अनुभूय अन्यैः अलङ्घयः अनतिक्रमणीयः त्वं
अव्यासङ्गः सावधानः सपदि शीघ्रं पदवीं मार्गं संश्रय आश्रय भवन्तं त्वां तटे
तीरे वसतिः वासः येषां ते तथ्वसतयः किराताः पुळिन्दाः माबन्दीकुर्युः बन्दी-
गृहीतं माकार्षुः ॥
२४
अनन्तरं तुण्डीराख्यं देशं पश्यन् सत्यव्रतक्षेत्रं गच्छेत्याह । तुण्डीरेति ॥ !
तदनु तदनन्तरं महितं पूज्यं तुण्डीर इति आख्या यस्य तत् तुण्डीराख्यं मण्डलं देशं
वीक्षमाणः पश्यन् तल मण्डले क्षपितं विनाशितं दुरितं पापं येन तथोक्तं सत्य-
ताख्यं क्षेत्रं (काञ्चीनामक पुण्यस्थलं) यायाः गच्छ यस क्षेत्रे सकलजगतां एकहेतुः
मुख्यकारणभूतः सदेवः क्रीडावान् विष्णुः पत्यौ कान्ते धातरि रोषात् कोपात्
सलिलवपुषः नदीरूपायाः वाग्देवतायाः सरस्वत्याः सेतुः वारकः जज्ञे अभूत् ॥ २५.
काञ्चीं वर्णयन् तां द्रक्ष्यसीत्याह । नानेति ॥ नानारतैः उपचितगुणां
समृद्धरूपां नित्य: अविच्छिन्नः सङ्गीतस्य तौर्यतिकस्य नादः ध्वनिः यस्यान्तथोक्त