This page has not been fully proofread.

-१२
 
हंस सन्देश
 
तत्रारूढैर्महति मनुजैरस्वर्गिभिश्चावतीर्णे-
स्वोन्मेषाद्व्यपगत मिथस्तारतम्यादिभेदैः ।
 
साधारण्यात्फलपरिणतेस्सङ्घशो बध्यमानां
 
शक्त्या कामं मधुविजयिनस्त्वंच कुर्यास्सपर्याम् ॥
 
२२
 
न्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छ
 
आसन्नानां वनविटपिनां बीचिहस्तैः प्रसूना-
 
द्रक्ष्यस्यारात्कनकमुखरां दक्षिणामञ्जनाद्रेः ।
 
न्यर्चाहेतोरुपहरति या नूनमर्धेन्दुमौः ॥
 
२३
 
पर्वतं गत्वा श्रीवेङ्कटेश्वरं त्वमपि यथाशक्तिपूजयेत्याह । तत्रेति ॥ महि
पूज्ये तत्र वेङ्काद्वौ मधुविजयिनः मधुरिपोः विष्णोः सत्वस्य सत्वगुणस्य उन्मेषात्
उद्रेकात् व्यपगतमिथस्तारतम्यादिभेदैः अपेतान्योन्यन्यूनताधिक्यप्रकारयुक्तैः
आरूढैः आरोहणंकृतवद्भिः मनुजैः मानवैः अवतीर्णैः स्वसेवार्थस्वर्गादागतैः
स्वर्गिभिः देवैश्च फलपरिणतेः फलप्रदानस्य साधारण्यात् न्यूनाधिकविचाराभावात्
सशः सङ्घीभूय बद्ध्यमानां रचितां सपर्यां पूजां त्वञ्च शक्त्या यथाशक्ति कामं
भृशं कुर्याः कुरु ॥
 
ཟའ་ ཆ
 
अनन्तरं कनकमुखरां नाम नदीं द्रक्ष्यसीत्याह । स्तोकेति । तव निवा-
साय विश्रमाय इच्छयेव अभिप्रायेणेव स्तोकं किञ्चित् उन्मग्नानि वीचीप्रसारणात्
निमज्य वीचीप्रसारणाभावे उद्गतानि स्फुरितानि व्यक्तानि पुळिनानि सैकतानि
यस्यान्तथोक्तां अञ्जनाद्रेः वेङ्कटगिरेः दक्षिणादिशि स्थितां कनकमुखरां स्वर्णमुखी-
नदी आरात् समीपे द्रक्ष्यसि प्रेक्षिष्यसे या नदी अर्धेन्दुमौळे: शिवस्य (काळ-
हस्तीश्वरस्य) अर्चाहेतोः पूजार्थं आसन्नानां समीपस्थितानां वनविपिनां अरण्य-
वृक्षाणां प्रसूनानि पुष्पाणि वीचीहस्तैः वीचिभिः तरङ्गैः हस्तैः करैरिव उपहरति
सम्पादयति नूनं इत्युत्प्रेक्ष्यते ॥
 
२३