This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
प्रथमाश्वासः
 
</ignore>
<verse lang="sa">
इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणां
 

सल्ला पैस्तैर्मुदितमनसां शालिसंरक्षिकाणाम् ।

कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदे
 
TPUSTIT
 

मुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥
 
११</verse>
<verse lang="sa">
विष्णोर्वासादवनिवहनाद्द्धरत्नैश्शिरोभि-

श्शेषस्साक्षाक्ष्यमिति जनैस्सम्यगुन्नीयमानः ।
 

अभ्रैर्युक्तो ऽलवुभिरचिरोन्मुक्त निर्मोककल्पै
 
-
रग्रे
भावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥
 
११
 
२१
 
</verse>
<p lang="sa">
मार्गमध्ये शालिसंरक्षकवधूनां मन्मथविकारात्कलुषं मुग्धभाव
मास्वादयेथा
इत्याह । इश्क्ष्विति ॥ इक्षूणां छाया इक्षुच्छायं तस्मिन् इक्षुच्छाये रसाल-

च्छाये । "&quot;छायाबाहुल्ये "&quot; इति नपुंसकत्वं । किसलयमयं पल्लवप्रचुरं । तल्पं

शय्यां आतस्थुषीणां आश्रितानां । तैः तादृशैः रत्यादिविषयैः सल्लापैः सम्भाषणैः ।

मुदितं मनः यासान्तासां । कर्णाटान्ध्रयोः (लक्षणया) कर्णाटान्ध्रभाषयोः व्यति-

करवशात् साङ्कर्यवशात् । कर्बुरे शबलिते । गोगीतिभेदे गानविशेषे । मुह्यन्तीनां

विवशत्वं यान्तीनां । शालीन् संरक्षन्तीति शालिसंरक्षिकाः सस्यपालिकास्तासां ।

मदनेन मन्मथेन कलुषं कालुष्यं प्राप्तं । मौग्ध्यं मूढत्वं । आस्वादयेथा अनुभवेः ॥ २०
 
</p>
<p lang="sa">
एवं गच्छतस्तव वेङ्काकटाद्भिः पुरोभविष्यतीत्याह । विष्णोरिति । तदनु

विष्णोः वेङ्कटेशस्य वासात् वासस्थानत्वात् अवनेः भूमेः वहनात् धारणात् बद्ध-
रक्तैः

रत्नैः
खचितमणिभिः शिरोभिः शिखरैः अयं पुरोवर्ती साक्षात् प्रत्यक्षमतः शेषइति

अनन्तइति जनैः सम्यक् उन्नीयमानः विचार्यमाणः अचिरोन्मुक्तनिर्मोककल्पैः

तत्क्षणविश्लिष्टकञ्चुकसदृशैः । अलघुभिः स्थूलैः अभ्रःरैः मेघैः युक्तः विशिष्टः अञ्ज
-
नाद्भिःरिः वेङ्काकटाद्भिःरिः सपदि सद्यः नयने चक्षुषी रञ्जयन् आनन्दयन् अग्रे पुरस्तात्

भावी भविष्यति ॥
 
२१.
 
</p>
</page>