हंससंदेशः /68
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">१०
</ignore>
<ignore lang="sa">हंससन्देशे
</ignore>
<verse lang="sa">मार्गोंगौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्ते
सह्यासन्नोऽप्यनघसुभगः पश्चिमो नित्यवर्षः ।
प्राचीनेषु प्रतिजनपदं संहतावद्भुतानां
89
मग्ना दृष्टिः कथमपि सखे ! मत्कृते ते निवार्या ॥
१८</verse>
<verse lang="sa">श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणां
प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानाम् ।
अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः
देशानेतान्वनगिरिनदीसंविभक्तान्व्यतीयाः ॥
१८
१-९
</verse>
<p lang="sa">तव समीचीनमार्गं वदामि तव गन्तव्यमित्याह । मार्गाविति । हे सखे
मित्र हंस । मम हनुमता द्वौ मार्गोंगौ सम्यकूक् वर्णितौ उक्तौ तयोर्मार्गयोः मध्ये ते
तव अनघः निर्दोषः (अतएव ) सुभगः सुन्दरः पश्चिमः यः सः मार्गः आसन्नोऽपि
सामीप्ययुक्तोपि । नित्यं वर्षं वृष्टिर्यस्मिन् सः नित्यवर्षः (तस्मात्स<fix> </fix>वर्ज्य इति<fix> </fix>भावः)
प्राचीनेषु पूर्वदेशस्थितेषु (मार्गेषु) जनपदे<fix> </fix>जनपदे प्रतिजनपदं प्रतिदेशं (अव्ययी-
भावः) अद्भुतानां आश्चर्याणां । संहतौ समूहे मग्ना सक्ता । ते तव दृष्टि: वीक्षणं ।
मत्कृते मम विषये । कथमपि यत्नतोऽपि । निवार्या निवारणीया । अतस्सन्तत-
वर्षाभावात् प्राचीनमार्गएवानुकूल इति भावः ॥
1
१८
</p>
<p lang="sa">अनन्तरं पक्कणस्थितपामरीजनैः निश्चितशरीरस्सन् पर्वतनदीसंविभक्त-
प्रदेशान् शीघ्रं व्यतीया इत्याह । श्रुत्वेति ॥ श्रवणयोः श्रोलत्रयोः मधुरम् तावकम्
त्वदीयम् शब्दं श्रुत्वा सपदि तत्क्षणे प्रत्यासन्नात् समीपस्थितात् भवनात्
गृहात् सादरं आदरेणसहितं यथातथा निर्गतानां पामरीणां पासरस्त्रीणां अभ्रूम-
ङ्गेपि भ्रूभङ्गाभावेपि अधिकं यथातथा सुभगैः मनोहरैः कटाक्षैः दृष्टिपातैः निश्चितं
अङ्गं स्वरूपं यस्य सः निश्चिताङ्गः त्वं वनगिरिनदीभिः संविभक्तान् पृथक्कृतान्
एतान् देशान् व्यतीयाः अतीत्य गच्छ ॥
१९
</p>
</page>
<ignore lang="sa">१०
<ignore lang="sa">हंससन्देशे
<verse lang="sa">मार्
सह्यासन्नोऽप्यनघसुभगः पश्चिमो नित्यवर्षः ।
प्राचीनेषु प्रतिजनपदं संहतावद्भुतानां
89
मग्ना दृष्टिः कथमपि सखे ! मत्कृते ते निवार्या ॥
<verse lang="sa">श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणां
प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानाम् ।
अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः
देशानेतान्वनगिरिनदीसंविभक्तान्व्यतीयाः ॥
१-
<p lang="sa">तव समीचीनमार्गं वदामि तव गन्तव्यमित्याह । मार्गाविति । हे सखे
मित्र हंस । मम हनुमता द्वौ मार्
तव अनघः निर्दोषः (अतएव
सामीप्ययुक्तोपि । नित्यं वर्षं वृष्टिर्यस्मिन् सः नित्यवर्षः (तस्मात्स<fix> </fix>वर्ज्य इति<fix> </fix>भावः)
प्राचीनेषु पूर्वदेशस्थितेषु (मार्गेषु) जनपदे<fix> </fix>जनपदे प्रतिजनपदं प्रतिदेशं (अव्ययी-
भावः) अद्भुतानां आश्चर्याणां । संहतौ समूहे मग्ना सक्ता । ते तव दृष्टि: वीक्षणं ।
मत्कृते मम विषये । कथमपि यत्नतोऽपि । निवार्या निवारणीया । अतस्सन्तत-
वर्षाभावात् प्राचीनमार्गएवानुकूल इति भावः ॥
1
<p lang="sa">अनन्तरं पक्कणस्थितपामरीजनैः निश्चितशरीरस्सन् पर्वतनदीसंविभक्त-
प्रदेशान् शीघ्रं व्यतीया इत्याह । श्रुत्वेति ॥ श्रवणयोः श्रो