This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
हंससन्दे
 
</ignore>
<verse lang="sa">
द्रक्ष्यस्येवं प्रियसख ! सुखं लङ्घिताध्वा सखीं ते

सीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे

गोपायन्ती तनुमपि निजां या कथंचिन्मदर्थं

भूमौ लोके वहति महतीमेकपत्नीसमाख्याम् ॥
 
एक
 
१४</verse>
<verse lang="sa">
प्रक्षीणां त्वंद्विरहसमये जातहर्षामिदानी
 
१४
 
नीं
प्रत्यायास्यन्ननुनय शनैः पद्मिनीं स्वादुवाचा ।

सा ते तन्त्रस्वनसुभगया स्यादितीहाभ्यनुज्ञां
sp।

मन्ये कुर्यान्मधुकर गिरा मैथिलीसौहृदेन ॥ १५
 
</verse>
<p lang="sa">
एवं गते सति तव सखीं सीतां द्रक्ष्यसीत्याह । द्रक्ष्यसीति । हे प्रियसख

इष्टमित्र हंस एवं एतादृशोपचारैः सुखं अनायासं यथातथा । लंघितः अतिक्रान्तः

अध्वा मार्गः येन तथोक्तः । त्वं । जनकनृपतेः । सीरेण हलेन कृष्टे विदारिते ।

क्षेत्रे यागभूमौ । उत्थितां प्रादुर्भूतां । मदर्थं मत्कृते । कथञ्चित् अधिककष्टेन ।

निजां स्वीयां । तनुं शरीरमपि । गोपायन्ती रक्षन्ती या सीता भूमौ लोके भूलोके ।

महतीं पूज्यां । एकः पतिर्यस्याः सा एकपली सेति समाख्या अभिधा
श्वा
तां वहति
धा
रयति । तां सखीं सख्युर्मम स्त्रियं सीतां । द्रक्ष्यसि वीक्षिष्यसे ॥
 
वहति
 
१४
 
</p>
<p lang="sa">
बिसिन्या हेतुना गतिविघ्नमाशङ्कय परिहरति । प्रक्षीणामिति ॥ हे<fix> </fix>हंस

तव विरहस्य वियोगस्य समये काले । प्रकर्षेण क्षीणां कृशां । इदानीं त्वत्संयोगसमये

जातः हर्षः सन्तोषः यस्यास्तां पद्मिनीं बिसिनीं । प्रत्यायास्यन् प्रत्यागमिष्यन् ।

त्वं । स्वादुवाचा मधुरोक्त्या । शनैर्मन्दं । अनुनय सान्त्वय । हिंहि यतः सा पद्मिनी

मैथिलीसौहृदेन सीतास्नेहेन तन्त्र्याः वीणागुणस्य स्वनवच्छब्दवत् सुभगया मनो-

हरया । मधुकरस्य भ्रमरस्य गिरैव गिरा ध्वनिरूपया वाचा । स्यात् अस्तु नाम

इति इह गमनविषये ते तव अभ्यनुज्ञां अनुमतिं । कुर्यात् करिष्यतीति मन्ये ॥ १५
 
</p>
</page>