This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
प्रथमाश्वासः
 
</ignore>
<verse lang="sa">
पर्याप्तं ते पवनचलितैरंगरागं परागैः

स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।

येनान्विष्यस्य चलतनयापादलाक्षानुषक्तं
 

चूडाचन्द्रं पुरविजयिनः स्वर्णदीपेन पूर्णम् ॥ ..
१२</verse>
<verse>
सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः

शारोपान्ताश्शतमखधनुश्शेष चित्रांशुकेने ।

ऊढाः पश्चादुचितगतिना वायुना राजहंस !

छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥
 
१२
 
19
१३
 
</verse>
<p lang="sa">
अनन्तरं प्रभ्रूणां ये ये उपचारास्ते सर्वे तव भविष्यन्तीत्याह । पर्याप्त-

मिति ॥ समं त्वत्प्रचारयोग्यशरत्कालएव समुदयात्पुष्पाविर्भावादभ्युदयाच्च

सुमसमुदयादिति पाठे पुष्पस्य उदद्यात् । बन्धवः बन्धुसदृशाः । बन्धुजीवाः

बन्धूकवृक्षाः । पवनेन वातेन चलितैः उद्भूतैः परागैः पुष्पधूळिभिः । हे हंस ते व

पर्याप्तं पूर्ण अङ्गरागं अनुलेपनं । काले तत्तत्काले । स्थाने तत्तद्देशे च । कुर्युः

करिष्यन्ति । अनुलेपनेन । अचलतनयायाः पार्वत्याः पादयोः लाक्षया

अलक्तकेन अनुषक्तं संसृष्टं । स्वर्णद्याः गङ्गायाः फेनेन डिण्डीरेण पूर्णं (कलामात्र-

त्वेपि) पूर्णकलाविशिष्टं । त्रिपुरविजयिनः शिवस्य । चूडायां शिखाया (सि
यां (स्थितं)

चन्द्रं । अन्विष्यसि अनुकरिष्यि
 
11
 
यसि ॥ १२</p>
<p lang="sa">
अंगरागरञ्जनानन्तरं वायुप्रेरिताः शरत्कालमेघाः आकाशे तवातपत्राणि

भविष्यन्तीत्याह । सूक्ष्मेति ॥ हे राजहंस । सूक्ष्मः आकारः स्वरूपं येषान्तैः ।

दिनकरस्य सूर्यस्य करैः किरणैः । <error>कख्पिताः</error> <fix>कल्पिताः</fix> कृता अन्तः शलाकाः अन्तरालशलाकाः-

येषान्तथोक्ताः । शतं मखाः यस्य सः शतमखः इन्द्रः यस्य धनुषः शेषः अवशिष्ट -

खण्डमेव चित्रांशुकं चित्रवस्त्रं तेन । शाराः नानावर्णाः उपान्ताः मण्डलावसान-

प्रदेश।ःशाः येषान्तथोक्तः । उचिता युक्ता गतिर्गमनं यस्य तेन । वायुना । पश्चात्

पृष्टभागे । ऊढाः धृताः । शारदाः शरत्कालसम्बन्धिनः । वारिवाहाः मेघाः नभसि

आकाशे । भवतस्तव छलायेरन् छतवदाचरेयुः ॥
 
१३
 
</p>
</page>