हंससंदेशः /65
This page has not been fully proofread.
प्रथमाश्वासः
पर्याप्तं ते पवनचलितैरंगरागं परागैः
स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।
येनान्विष्यस्य चलतनयापादलाक्षानुषक्तं
चूडाचन्द्रं पुरविजयिनः स्वर्णदीपेन पूर्णम् ॥ ..
सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तरशलाकाः
शारोपान्ताश्शतमखधनुशेष चित्रांकने ।
ऊढाः पश्चादुचितगतिना वायुना राजहंस !
छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥
१२
19 १३
अनन्तरं प्रभ्रूणां ये ये उपचारास्ते सर्वे तव भविष्यन्तीत्याह । पर्याप्त-
मिति ॥ समं त्वत्प्रचारयोग्यशरत्कालएव समुदयात्पुष्पाविर्भावादभ्युदयाच्च
सुमसमुदयादिति पाठे पुष्पस्य उदद्यात् । बन्धवः बन्धुसदृशाः । बन्धुजीवाः
बन्धूकवृक्षाः । पवनेन वातेन चलितैः उद्भूतैः परागैः पुष्पधूळिभिः । हे हंस ते व
पर्याप्तं पूर्ण अङ्गरागं अनुलेपनं । काले तत्तत्काले । स्थाने तत्तद्देशे च । कुर्युः
करिष्यन्ति । अनुलेपनेन । अचलतनयायाः पार्वत्याः पादयोः लाक्षया
अलक्तकेन अनुषक्तं संसृष्टं । स्वर्णद्याः गङ्गायाः फेनेन डिण्डीरेण पूर्ण (कलामात्र-
त्वेपि) पूर्णकलाविशिष्टं । त्रिपुरविजयिनः शिवस्य । चूडायां शिखाया (सि
। (स्थितं)
चन्द्रं । अन्विष्यसि अनुकरिष्यि
11
अंगरागरञ्जनानन्तरं वायुप्रेरिताः शरत्कालमेघाः आकाशे तवातपत्राणि
भविष्यन्तीत्याह । सूक्ष्मेति ॥ हे राजहंस । सूक्ष्मः आकारः स्वरूपं येषान्तैः ।
दिनकरस्य सूर्यस्य करैः किरणैः । कख्पिताः कृता अन्तः शलाकाः अन्तरालशलाकाः-
येषान्तथोक्ताः । शतं मखाः यस्य सः शतमखः इन्द्रः यस्य धनुषः शेषः अवशिष्ट -
खण्डमेव चित्रांशुकं चितवस्त्रं तेन । शाराः नानावर्णाः उपान्ताः मण्डलावसान-
प्रदेश।ः येषान्तथोक्तः । उचिता युक्ता गतिर्गमनं यस्य तेन । वायुना । पश्चात्
पृष्टभागे । ऊढाः धृताः । शारदाः शरत्कालसम्बन्धिनः । वारिवाहाः मेघाः नभसि
आकाशे । भवतस्तव छलायेरन् छतवदाचरेयुः ॥
१३