This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
६.

</ignore>
<ignore lang="sa">
हंससन्देशे

</ignore>

वाचालानामिव जडधियां सत्कवौ दूरयाते

कैलासाय त्वयि गतवति क्षीवतामाश्रितानाम् ।

सम्मोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां

मेघापाये विपिनशिखिनां वीक्ष्य वाचंयमत्वम् ॥

<ignore lang="sa">
१०

</ignore>

आरक्तानां नवमधु शनैरापिबन् पद्मिनीनां

कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।

स्विन्नो दानैर्विपिनकरिणां सौम्य ! सेविष्यते त्वा-

मामोदानामह<fix>मह</fix>मिकामादिशन्गन्धवाहः ॥

T

११

गते सति मार्गे सन्तोषो भविष्यतीत्याह । वाचालानामिति ॥ सत्कवौ<error>-
</error>
सत्काव्यकर्तरि समीचीनजलपक्षिणि<fix> </fix>च । दूरं याते सति । जड़ा धीर्येषान्ते जड-

धियः मन्दमतयः तेषां । वाचालानां असारबहुभाषिणामिव । त्वयि । कैलासाय

कैलासस्थित मानससरसे। (वर्षाकाले) गतवति<fix> </fix>सति । क्षीतां मत्तभावं । आश्रि-

तानां प्राप्तानां । मेघापाये शरत्काले । चन्द्रकैः बहःर्हैः । उज्झितानां त्यक्तानां

विपिनशिखिनां वनमयूराणां । वाचंयमत्वं मौनं । वीक्ष्य दृष्ट्वा । ते तव । पथि

मागें । सम्मोदः सन्तोषः ॥ परिणमेत् भविष्यति ॥

१०

अनन्तरं गमनवेळायां श्रान्तिपरिहाराय मन्दमारुतोऽपि त्वां सेविष्यत <error>-
</error>
इत्याह । आरक्तानामिति ॥ आरक्तानां सर्वतोरक्तानां । पद्मिनीनां पद्म

सरसां । नवं नूतनं मधु मकरन्दं । शनैः त्वरां विहाय । आपिबन् सम्यक्पिबन् ।

काले रात्रिकाले उद्गता निद्रा यस्मात्तत् उन्निद्धंरं विकसितं तस्मिन् । कुवलयाना-

मुत्पलानां वने । सलीलं लीलया सहितं यथा तथा । घूर्णमानः भ्रमन् । विपिन \-

करिणां वनगजानां । दानैः मदजलैः । स्विन्नः स्वेदयुक्तः । आमोदानां समीप-

वर्त्यतिशयगन्धानां । अहमहमिकां गमनविषयामहन्तां । आदिशन् कुर्वन् । गन्ध-

वाहः वायुः । हे सौम्य सुन्दर हंस । त्वां सेविष्यते त्वत्सेवां करिष्यति ॥

११

</page>