हंससंदेशः /64
This page has not been fully proofread.
६.
हंससन्देशे
वाचालानामिव जडधियां सत्कव दूरयाते
कैलासाय त्वयि गतवति क्षीवतामाश्रितानाम् ।
सम्मोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां
मेघापाये विपिनशिखिनां वीक्ष्य वाचंयमत्वम् ॥
१०
आरक्तानां नवमधु शनैरापिबन् पद्मिनीनां
कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।
स्विन्नो दानैर्विपिनकरिणां सौम्य ! सेविष्यते त्वा-
मामोदानामहमिकामादिशन्गन्धवाहः ॥
T
११
गते सति मार्गे सन्तोषो भविष्यतीत्याह । वाचालानामिति ॥ सत्कवौ-
सत्काव्यकर्तरि समीचीनजलपक्षिणिच । दूरं याते सति । जड़ा धीर्येषान्ते जड-
धियः मन्दमतयः तेषां । वाचालानां असारबहुभाषिणामिव । त्वयि । कैलासाय
कैलासस्थित मानससरसे। (वर्षाकाले) गतवतिसति । क्षीवतां मत्तभावं । आश्रि-
तानां प्राप्तानां । मेघापाये शरत्काले । चन्द्रकैः बहः । उज्झितानां त्यक्तानां
विपिनशिखिनां वनमयूराणां । वाचंयमत्वं मौनं । वीक्ष्य दृष्ट्वा । ते तव । पथि
मागें । सम्मोदः सन्तोषः ॥ परिणमेत् भविष्यति ॥
१०
अनन्तरं गमनवेळायां श्रान्तिपरिहाराय मन्दमारुतोऽपि त्वां सेविष्यत -
इत्याह । आरक्तानामिति ॥ आरक्तानां सर्वतोरक्तानां । पद्मिनीनां पद्म
सरसां । नवं नूतनं मधु मकरन्दं । शनैः त्वरां विहाय । आपिबन् सम्यक्पिबन् ।
काले रात्रिकाले उद्गता निद्रा यस्मात्तत् उन्निद्धं विकसितं तस्मिन् । कुवलयाना-
मुत्पलानां वने । सलीलं लीलया सहितं यथा तथा । घूर्णमानः भ्रमन् । विपिन -
करिणां वनगजानां । दानैः मदजलैः । स्विन्नः स्वेदयुक्तः । आमोदानां समीप-
वर्त्यतिशयगन्धानां । अहमहमिकां गमनविषयामहन्तां । आदिशन् कुर्वन् । गन्ध-
वाहः वायुः । हे सौम्य सुन्दर हंस । त्वां सेविष्यते त्वत्सेवां करिष्यति ॥
।