हंससंदेशः /59
This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीरस्तु ॥
</subtitle>
<subtitle lang="sa">॥ श्रीरामचन्द्राय नमः ॥
</subtitle>
<verse>श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
</verse>
<title lang="sa">॥ हंससन्देशप्रारम्भः ॥
</title>
<heading lang="sa">॥ प्रथमाश्वासः ॥
</heading>
<verse n="1.1" lang="sa">वंशे जातस्सवितुरनघे मानयन्मानुषत्वं
देवः श्रीमाञ्जनकतनयान्वेषणे जागरूकः ।
प्रत्यायाते पवनतनये निश्चितार्थस्सकामी
कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १
</verse>
<ignore lang="sa">---
तन</ignore>
<p lang="sa">तत्र भवान् वेङ्कटनाथार्यः परमोत्कृष्टविषयं हंससन्देशमारचयतिस्म । तत्र
सन्देशे रामः माल्यवत्पर्वते स्थितः सन् मारुतिदर्शनानन्तरं सीताया आश्वास-
नार्थं तत्र कुत्रचित् सरसि स्थितं हंसं दृष्ट्वा प्रेषयति । तत्र प्रथमश्लोके स्वयं परवासु-
देवः श्रिया नित्यसंश्लिष्टोऽपि मनुष्यत्वमभिनयन् कामुकत्वमनुबभूवेत्याह ।
वंश इति || सवितुः सूर्यस्य । अनघे निर्दोषे वंशे कुले जातः उद्भूतः मानुषत्वं
मनुष्यभावं मानयन् बहुमन्यमानः देवः कान्तिमान् श्रीमान् श्रीवैशिष्ट्यानुगुण-
शुद्धसत्वमयविग्रहः जनकतनयान्वेषणे सीतागवेषणे जागरूकः सावधानः पवन-
तनये हनूमति प्रत्यायाते लङ्कायां सीतां दृष्ट्वा प्रतिनिवृत्यागते सति निश्चितार्थ:
निश्चितसीतावृत्तान्तः कामी कामवान् सः रामः | कल्पाकारां प्रळयकालसदृशीं
निशां रात्रिरिं आविभातं उदयपर्यन्तं कथमपि महता प्रयासेन विषेहे चक्षमे । विर-
हिणामेकापि निशा कल्पसमाना भवति । अत सन्देशे सर्वतत्र मन्दाक्रान्तावृत्तं |
""मन्दाक्रान्ता जलधिषडगैर्म्भौनतौताद्गुरूचे"" दिति लक्षणात् ॥ १</p>
</page>
<subtitle lang="sa">॥ श्रीरस्तु ॥
<subtitle lang="sa">॥ श्रीरामचन्द्राय नमः ॥
<verse>श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
<title lang="sa">॥ हंससन्देशप्रारम्भः ॥
<heading lang="sa">॥ प्रथमाश्वासः ॥
<verse n="1.1" lang="sa">वंशे जातस्सवितुरनघे मानयन्मानुषत्वं
देवः श्रीमाञ्जनकतनयान्वेषणे जागरूकः ।
प्रत्यायाते पवनतनये निश्चितार्थस्सकामी
कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १
<ignore lang="sa">---
तन
<p lang="sa">तत्र भवान् वेङ्कटनाथार्यः परमोत्कृष्टविषयं हंससन्देशमारचयतिस्म । तत्र
सन्देशे रामः माल्यवत्पर्वते स्थितः सन् मारुतिदर्शनानन्तरं सीताया आश्वास-
नार्थं तत्र कुत्रचित् सरसि स्थितं हंसं दृष्ट्वा प्रेषयति । तत्र प्रथमश्लोके स्वयं परवासु-
देवः श्रिया नित्यसंश्लिष्टोऽपि मनुष्यत्वमभिनयन् कामुकत्वमनुबभूवेत्याह ।
वंश इति || सवितुः सूर्यस्य । अनघे निर्दोषे वंशे कुले जातः उद्भूतः मानुषत्वं
मनुष्यभावं मानयन् बहुमन्यमानः देवः कान्तिमान् श्रीमान् श्रीवैशिष्ट्यानुगुण-
शुद्धसत्वमयविग्रहः जनकतनयान्वेषणे सीतागवेषणे जागरूकः सावधानः पवन-
तनये हनूमति प्रत्यायाते लङ्कायां सीतां दृष्ट्वा प्रतिनिवृत्यागते सति निश्चितार्थ:
निश्चितसीतावृत्तान्तः कामी कामवान् सः रामः | कल्पाकारां प्रळयकालसदृशीं
निशां रात्
हिणामेकापि निशा कल्पसमाना भवति । अत सन्देशे सर्व
</page>