This page has been fully proofread once and needs a second look.

५०
 
১४
 
<page>
<ignore lang="sa">
हंससन्देशे
 
</ignore>
<verse lang="sa">
राज्यं भूयस्स्वयमनुभवन्रक्षितं पादुकाभ्यां
 

रामः श्रीमानतनुत निजां राजधानी
 
सनाथाम् ॥ ४९</verse>
<verse>
विद्याशिल्पप्रगुणमतिना वेङ्कटेशेन क्लृकॢप्तं
 

 
सनाथाम् ॥
 
४९
 

चिन्ताशाणोल्लिखितमसकृच्छ्रेयमां प्राप्तिहेतुं ।
 

सीताहंसव्यतिकरसखं रामसन्देशरत्नं
 

पश्यन्त्वन्तः श्रवणमनघं चक्षुरुज्जीव्य
 
सन्तः ॥
 
५०
 

 
</verse>
<trailer lang="sa">
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
 
स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु

हंससन्देशे द्वितीयाश्वासः ॥
 
</trailer>
<p lang="sa">
रावणे विनिहते सति सीतां प्राप्य प्रतीतः हृष्टः पादुकाभ्यां रक्षितं राज्यं स्वदेशं
 

भूयः स्वयं अनुभवन् रामः श्रीमान् सीतारूपलक्ष्मीयुक्तस्सन् निजा
नि
जां स्वीयां

राजधानीनीं अयोध्यां सनाथां नाथसहितां अतनुत अकरोत् ॥
 
४९
 
</p>
<p lang="sa">
विद्येति ॥ विद्यासु शिल्पेषु कलासु च प्रगुणमुत्कृष्टं मनो यस्य तथोक्तेन

वेङ्कटेशेन तन्नाम्ना कविना क्लृकॢप्तं रचितं चिन्तया चिन्तनेनैव शाणेन उत्तेजनयन्त्रेण

उल्लिखितं उत्तेजितं असकृत् सदा श्रेयसां कल्याणानां प्राप्तेः लाभस्य हेतुं कारणं

सीताहंसयोः व्यतिकरे स्वामिभृत्यभावरूपसम्बन्धे सखायं मिन्त्रं रामस्य

(सीतां प्रति) सन्देशरूपं रतं सन्तः अनघं निर्दोषं चक्षुः ज्ञानचक्षुः उज्जीव्य

आश्रित्य अन्तस्त्श्श्रवणं पश्यन्तु कर्णाभ्यां शृण्वन्त्वित्यर्थः ॥
 
38
 
५०</p>
<trailer lang="sa">
॥ इति हंससन्देशव्याख्यायां द्वितीयाश्वासः समाप्तः ॥
 
५०
 
शिशु
 
</trailer>
<ignore lang="sa">
Printed at the Vavilla Press, Madras 21.-12-1-55 wyb
 
H
 
</ignore>
</page>