This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa">
साम्राज्यं यदि सप्तमार्णवतटीविश्राम्यदाज्ञाक्षरं
सौन्दर्य यदि मुद्रिताः स्मरगिरः सा चेन्मतिः को गुरुः ।
शौर्यं चेत्पुनरन्यदेव तदिति स्तोत्रं विचित्रं सतां
शृण्वन्नेव भगीरथक्षितिपतिर्निन्ये सहस्रं समाः ॥ ८६ ॥
</verse>
<trailer>
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे कथावतारो नाम प्रथमः सर्गः ।
 
</trailer>
<heading lang="sa">
द्वितीयः सर्गः ।
</heading>
<verse>
पौरजानपदपार्थिवलोकप्रस्तुतस्तुतिवचोमुखरायाम् ।
जातु संसदि निषद्य सुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥
</verse>
<verse>
स प्रसङ्गकृतसंगति वक्तुं प्रस्तुतं किमपि बान्धववृद्धैः ।
सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥
</verse>
<verse>
अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः ।
अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥
</verse>
<verse>
यत्ततः सगिरिकेतुवनान्ता तैर्व्यचीयत मही निखिलेयम् ।
यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥
</verse>
<verse>
मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् ।
पादकर्णसमवायत एवं प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥
</verse>
<verse>
तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे ।
चोर इत्यमुमभिद्रवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥
</verse>
<verse>
अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् ।
सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७ ॥
</verse>
<verse>
दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् ।
संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥
</verse>
<verse>
कन्यकास्ति कुटिलेति हिमाद्रेर्ज्यायसी स्मरणतोऽप्यघहन्त्री ।
शंकराय वितरीतुममर्त्याः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥</verse>
</page>