गङ्गावतरणम् /33
This page has been fully proofread once and needs a second look.
<page>
<verse>स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्त्मसु ।
सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥
</verse>
<verse>अख्यातपूर्वविजयानतृणीकृतजीवितान् ।
अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥
</verse>
<verse>अवितीर्णमहाग्रामैरकृतस्वर्णवृष्टिभिः ।
कटाक्षैर्न बभूवेऽस्य कविवत्क्रनिपातिभिः ॥ ७७ ॥
</verse>
<verse>संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् ।
तिरस्कारमिवामंस्त चापस्यापि शिरोनतिम् ॥ ७८ ॥
</verse>
<verse>प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न क्वचित् ।
वासवादसकृद्वृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥
</verse>
<verse>सायाह्नापचयेनापि मर्यादां लङ्घतेऽर्णवः ।
स तु तावत्प्रवृद्धोऽपि मर्यादां नात्यलङ्घत ॥ ८० ॥
</verse>
<verse>दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽपचीयते ।
स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥
</verse>
<verse>पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुष्य दातृताम् ।
पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ॥ ८२ ॥
</verse>
<verse>यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा ।
इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य <error>महोत्सवेप्वपि</error> <fix>महोत्सवेष्वपि </fix>॥ ८३ ॥
</verse>
<verse>एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः
कण्ठोद्ग्रीवितजीवितैर्निरवधिः कालः कथंचिज्जितः ।
तैरेवोदरपूरमध्वरहविः स्फारं तदावर्जितं
भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥
</verse>
<verse>परिज्ञातं तत्त्वं निखिलमपि विद्यासु विदुषां
परिज्ञातं भूयः परिषदि सतां श्लाघितमपि ।
फलैर्योक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि
प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥८५ ॥</verse>
</page>