गङ्गावतरणम् /32
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">गोवर्धनधरस्यापि यदि तावद्यशो हरेः ।
कियन्न वर्ण्यः स भुवं बिभ्रत्सगिरिकाननाम् ॥ ६२ ॥
</verse>
<verse lang="sa">स पौरान्पादमूलस्थानरक्षदिति नाद्भुतम् ।
यद्दिगन्ते यशोऽरक्षत्प्रतापं शारिवेश्मसु ॥ ६३ ॥
</verse>
<verse lang="sa">दयालुरथ भूतेषु दण्ड्येष्वासीत्स निर्दयः ।
संजीवनोऽपि लोकानां चन्द्रमाः पथिकान्तकः ॥ ६४ ॥
</verse>
<verse lang="sa">न दण्ड्यं मुमुचे कंचिन्न वा कंचिददण्डयत् ।
तथापि युक्तदण्डः स दयालुरिति पप्रथे ॥ ६५ ॥
</verse>
<verse lang="sa">उचितेष्वदिशदृष्टिमुदासीनः परेषु च ।
शुश्राव च न शुश्राव स वाचमनुजीविनाम् ॥ ६६ ॥
</verse>
<verse lang="sa">उचितज्ञतया तस्मिन्नन्वरज्यन्यथा प्रजाः ।
न तथा तस्य दानेन न तथा चोपलालनैः ॥ ६७ ॥
</verse>
<verse lang="sa">तस्मिन्दुर्जनदुर्धर्षे समं पश्यति च प्रजाः ।
सर्वोऽप्यासीदपिशुनः सर्वोऽपि गतमत्सरः ॥ ६८ ॥
</verse>
<verse lang="sa">स यावल्लालयामास क्रीडन्निव हसन्निव ।
उपासांचक्रिरे तावद्भुतास्तमनुजीविनः ॥ ६९ ॥
</verse>
<verse lang="sa">जातः कोपो न भृत्येषु जातोऽपि न निगूहितः ।
निगूहितोऽपि न चिरमास्त चित्तेऽस्य कोमले ॥ ७० ॥
</verse>
<verse lang="sa">वैरायतां विरिञ्चोऽपि विप्रकर्तुं क्षमेत सः <fix>।</fix>
अज्ञातविमतोत्पादामभुङ्क्त तदपि क्षितिम् ॥ ७१ ॥
</verse>
<verse lang="sa">प्रणाममात्रसंप्रीतस्तेजखी चोदयस्थितः ।
कूटस्थं रविमैक्ष्वाको गुणैरनुययाविव ॥ ७२ ॥
</verse>
<verse lang="sa">तस्यासन्प्राक्तना एव सेनामन्त्र्यनुजीविनः|।
नवं यशो नवः कोशो नवं राज्यं च केवलम् ॥ ७३ ॥
</verse>
<verse lang="sa">षष्ठांशं जगृहे नेति तुष्टुवुस्तं तपस्विनः ।
न त्वबुध्यन्त गृह्णन्तमुपायेनाखिलं तपः ॥ ७४ ॥</verse>
</page>
<verse lang="sa">गोवर्धनधरस्यापि यदि तावद्यशो हरेः ।
कियन्न वर्ण्यः स भुवं बिभ्रत्सगिरिकाननाम् ॥ ६२ ॥
<verse lang="sa">स पौरान्पादमूलस्थानरक्षदिति नाद्भुतम् ।
यद्दिगन्ते यशोऽरक्षत्प्रतापं शारिवेश्मसु ॥ ६३ ॥
<verse lang="sa">दयालुरथ भूतेषु दण्ड्येष्वासीत्स निर्दयः ।
संजीवनोऽपि लोकानां चन्द्रमाः पथिकान्तकः ॥ ६४ ॥
<verse lang="sa">न दण्ड्यं मुमुचे कंचिन्न वा कंचिददण्डयत् ।
तथापि युक्तदण्डः स दयालुरिति पप्रथे ॥ ६५ ॥
<verse lang="sa">उचितेष्वदिशदृष्टिमुदासीनः परेषु च ।
शुश्राव च न शुश्राव स वाचमनुजीविनाम् ॥ ६६ ॥
<verse lang="sa">उचितज्ञतया तस्मिन्नन्वरज्यन्यथा प्रजाः ।
न तथा तस्य दानेन न तथा चोपलालनैः ॥ ६७ ॥
<verse lang="sa">तस्मिन्दुर्जनदुर्धर्षे समं पश्यति च प्रजाः ।
सर्वोऽप्यासीदपिशुनः सर्वोऽपि गतमत्सरः ॥ ६८ ॥
<verse lang="sa">स यावल्लालयामास क्रीडन्निव हसन्निव ।
उपासांचक्रिरे तावद्भुतास्तमनुजीविनः ॥ ६९ ॥
<verse lang="sa">जातः कोपो न भृत्येषु जातोऽपि न निगूहितः ।
निगूहितोऽपि न चिरमास्त चित्तेऽस्य कोमले ॥ ७० ॥
<verse lang="sa">वैरायतां विरिञ्चोऽपि विप्रकर्तुं क्षमेत सः <fix>।</fix>
अज्ञातविमतोत्पादामभुङ्क्त तदपि क्षितिम् ॥ ७१ ॥
<verse lang="sa">प्रणाममात्रसंप्रीतस्तेजखी चोदयस्थितः ।
कूटस्थं रविमैक्ष्वाको गुणैरनुययाविव ॥ ७२ ॥
<verse lang="sa">तस्यासन्प्राक्तना एव सेनामन्त्र्यनुजीविनः