गङ्गावतरणम् /30
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">प्राचेतसेन यानीता पालिता भवभूतिना ।
सर्वतश्चर्व्यते वाणी सैवाद्य कविमानिभिः ॥ ३६ ॥
</verse>
<verse lang="sa">निःशङ्कं न प्रवृत्तोऽस्मि निन्दितुं कविमानिनः ।
निन्दामपि विगायन्ति यतः श्लाघामिवात्मनः ॥ ३७ ॥
</verse>
<verse lang="sa">मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥
</verse>
<verse lang="sa">तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमान[^१]प्पयदीक्षितः ॥ ३९ ॥
</verse>
<verse lang="sa">विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् ।
जयन्त इव दुर्दान्तजानकीशशरार्दितः ॥ ४० ॥
</verse>
<verse lang="sa">आगमैरप्यसंवेद्यमाद्यं यत्तत्त्वमैश्वरम् ।
आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४१ ॥
</verse>
<verse lang="sa">श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका |
श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ४२ ॥
</verse>
<verse lang="sa">गङ्गया यः पुरा स्नातो देवश्चन्द्रार्धशेखरः ।
गाङ्गेयेन पुनः सस्नौ सोऽवतीर्य यदात्मना ॥ १३ ॥
</verse>
<verse lang="sa">अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः ।
यत्प्रबन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥
</verse>
<verse lang="sa">यं विद्म इति यद्रन्थानभ्यास्यामोऽखिलानिति ।
यस्य शिष्याः स्म इति च श्लाघन्ते स्वं विपश्चितः ॥ ४५ ॥
</verse>
<verse lang="sa">नाकेऽपि सति देवानां माहात्म्यकलहे मिथः ।
वादः शाम्यति यद्वाचि विन्यस्य निखिलंभरम् ॥ ४६ ॥
</verse>
<verse lang="sa">आमोदिभिर्वचंःपुष्पैरर्चितो येन शंकरः ।
तत्याज काशधत्तूरधारणोपहितां रुजम् ॥ ४७ ॥
</verse>
<verse lang="sa">तत्समानप्रभावस्य तदनन्तरजन्मनः ।
आसीदाच्चादीक्षितस्य पुत्रो नाणयणाध्वरी ॥ ४८ ॥
[^</verse>
<footnote lang="sa">१]. अप्पयदीक्षितः कवेः पितामहस्य ज्यायान्भ्राता.</footnote>
</page>
<verse lang="sa">प्राचेतसेन यानीता पालिता भवभूतिना ।
सर्वतश्चर्व्यते वाणी सैवाद्य कविमानिभिः ॥ ३६ ॥
<verse lang="sa">निःशङ्कं न प्रवृत्तोऽस्मि निन्दितुं कविमानिनः ।
निन्दामपि विगायन्ति यतः श्लाघामिवात्मनः ॥ ३७ ॥
<verse lang="sa">मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥
<verse lang="sa">तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमान[^१]प्पयदीक्षितः ॥ ३९ ॥
<verse lang="sa">विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् ।
जयन्त इव दुर्दान्तजानकीशशरार्दितः ॥ ४० ॥
<verse lang="sa">आगमैरप्यसंवेद्यमाद्यं यत्तत्त्वमैश्वरम् ।
आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४१ ॥
<verse lang="sa">श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका |
श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ४२ ॥
<verse lang="sa">गङ्गया यः पुरा स्नातो देवश्चन्द्रार्धशेखरः ।
गाङ्गेयेन पुनः सस्नौ सोऽवतीर्य यदात्मना ॥ १३ ॥
<verse lang="sa">अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः ।
यत्प्रबन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥
<verse lang="sa">यं विद्म इति यद्रन्थानभ्यास्यामोऽखिलानिति ।
यस्य शिष्याः स्म इति च श्लाघन्ते स्वं विपश्चितः ॥ ४५ ॥
<verse lang="sa">नाकेऽपि सति देवानां माहात्म्यकलहे मिथः ।
वादः शाम्यति यद्वाचि विन्यस्य निखिलंभरम् ॥ ४६ ॥
<verse lang="sa">आमोदिभिर्वचंःपुष्पैरर्चितो येन शंकरः ।
तत्याज काशधत्तूरधारणोपहितां रुजम् ॥ ४७ ॥
<verse lang="sa">तत्समानप्रभावस्य तदनन्तरजन्मनः ।
आसीदाच्चादीक्षितस्य पुत्रो नाणयणाध्वरी ॥ ४८ ॥
[^
<footnote lang="sa">१
</page>