This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa">
सत्यर्थे सत्सु शब्देषु सति चाक्षरडम्बरे ।
शोभते यं विना नोक्तिः स पन्था इति घुष्यते ॥ १० ॥
 
</verse>
<verse lang="sa">
शृण्वन्तोऽपि न शृण्वन्ति जानन्तोऽपि न जानते ।
साहितीमितरे तस्या ज्ञाता श्रोता च यः कविः ॥ ११ ॥
 
</verse>
<verse lang="sa">
न लक्षणेषु निष्कर्षो न वा काव्येषु कौशलम् ।
संदर्भनिर्णयायालं स ह्यदृष्टैकमूलकः ॥ १२ ॥
 
</verse>
<verse lang="sa">
भारतीषु कवीन्द्राणां यावती सुकुमारता ।
तावती काव्यमर्मज्ञसंमर्दैकसहिष्णुता ॥ १३ ॥
 
</verse>
<verse lang="sa">
अचमत्कृतसंदर्भमर्थं नैवाद्रियामहे ।
अत्यन्तभोगौपयिकमैश्वर्यमिव देहिनाम् ॥ १४ ॥
 
</verse>
<verse lang="sa">
स्वर्गः कस्यास्तु सुधियः श्लाघन्ते चेन्निजं पदम् ।
ततोऽन्यः कोऽस्ति निरयस्तत्र ते यद्युदासते ॥ १५ ॥
 
</verse>
<verse lang="sa">
हतः श्लोको हतं काव्यं हता बुद्धिर्हतं यशः ।
सद्भिरुद्भावितो दोषो यदि नाभ्युपगम्यते ॥ १६ ॥
 
</verse>
<verse lang="sa">
अन्धास्ते कवयो येषां पन्थाः क्षुण्णः परैर्भवेत् ।
परेषां तु यदाक्रान्तः पन्थास्ते कविकुञ्जराः ॥ १७ ॥
 
</verse>
<verse lang="sa">
विदुषां मत्सरग्रन्थिर्विभेद्यो वचसां गुणैः ।
नैव केनापि दुर्मेधश्चोद्यमर्कटमुष्टयः ॥ १८ ॥
 
</verse>
<verse lang="sa">
आजन्मनः प्रबन्द्धॄणां पद्यबन्धेषु यः श्रमः ।
सोऽपि सामाजिकायत्तः कष्टं धिक्कविजीवितम् ॥ १९ ॥
 
</verse>
<verse lang="sa">
नार्थमुल्लिखितुं यत्नो नापि ग्रन्थयितुं गिरः |
श्रवणात्प्रागनाक्षेपः श्रोतुरभ्यर्थ्यते परम् ॥ २० ॥
 
</verse>
<verse lang="sa">
दूषणाय न काव्यानां दुर्जनाक्षेपसंप्लवः ।
शफरीपरिवर्तैः किं सरसी न प्रसीदति ॥ २१ ॥
 
</verse>
<verse lang="sa">
सव्यङ्गापि कवेर्वाणी सापभ्रंशा न शोभते ।
लम्बस्तनीं को वीक्षेत रम्भामप्युर्वशीमपि ॥ २२ ॥</verse>
</page>