गङ्गावतरणम् /27
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">काव्यमाला ।</ignore>
<subtitle lang="sa">श्रीनीलकण्ठदीक्षितप्रणीतं</subtitle>
<title lang="sa">गङ्गावतरणम् ।</title>
<heading lang="sa">प्रथमः सर्गः ।</heading>
<verse lang="sa">अद्भुतं किमपि द्वन्द्वमस्तु तन्मम शर्मणे ।
स्वस्तिकस्तनुते यस्य सुदृढाश्लेषनिर्वृतिम् ॥ १ ॥</verse>
<verse>व्यासमेव स्तुमो यस्य वाचं गणयितुं विधिः ।
विषीदति वृषाङ्केण विलूने पञ्चमानने ॥ २ ॥</verse>
<verse>कान्तः सहृदयो वाचः कविरेव<ref>१</ref> चिरंतनः ।
जडे जगति येनैव च्छन्दः प्रागन्वरुध्यत ॥ ३ ॥</verse>
<verse>कवितामफलद्वीटी कालिदासमुखेऽर्पिता ।
पत्युर्मुखे तु सा गौर्याः परुषं निगमाक्षरम् ॥ ४ ॥</verse>
<verse>ना<ref>२</ref>रायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे |
शारदा यत्कटाक्षाणां साप्यवेतनकिंकरा ॥ ५ ॥</verse>
<verse>कल्पनेत्यस्ति तत्किंचित्कविलोकस्य जीवितम् ।
प्रविश्येव गृहीतं यद्भारत्याः कोशमन्दिरात् ॥ ६ ॥</verse>
<verse>स संदर्भ: कवीन्द्राणां शारदा यं पदे पदे ।
श्लाघते विस्मयावेशस्मेरमन्थरया दृशा ॥ ७ ॥</verse>
<verse>शीलिते कविलोकेन सिद्धे ब्रह्मणि वाङ्मये ।
पामराः कलहायन्ते पश्यास्मिन्नन्यथान्यथा ॥ ८ ॥</verse>
<verse>अस्ति सारस्वतं चक्षुरज्ञातस्वापजागरम् ।
गोचरो यस्य सर्वोऽपि यत्स्वयं कर्णगोचरः ॥ ९ ॥</verse>
<footnotemarklang="sa">१." lang="sa"> आदिकविः वाल्मीकिः</footnote>
<footnote mark=">२."> नारायणाध्वरीन्द्रः कवेः पिता.</footnote>
</page>

<footnote
<footnote
</page>