2025-12-12 03:49:34 by akprasad
This page has been fully proofread twice.
<page>

गोविन्द-दामोदर-स्तोत्र

( १० )

<verse text="A" n="10">अङ्काधिरूढं शिशुगोपगूढं
स्तनं धयन्तं कमलैककान्तम् ।
सम्बोधयामास मुदा यशोदा
गोविन्द दामोदर माधवेति ॥
</verse>

( ११ )

<verse text="A" n="11">क्रीडन्तमन्तर्व्रजमात्मजं स्वं
समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोबिन्द दामोदर माधवेति ॥
</verse>

( १२ )

<verse text="A" n="12">यशोदया गाढमुलूखलेन
गोकण्ठपाशेन निबध्यमानः ।
रुरोद मन्दं नवनीतभोजी
गोविन्द दामोदर माधवेति ॥
</verse>

( १३ )

<verse text="A" n="13">निजाङ्गने कङ्कणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आमर्दयत्पाणितलेन नेत्रे
गोविन्द दामोदर माधवेति ॥
</verse>

( १४ )

<verse text="A" n="14">गृहे गृहे गोपवधूकदम्बा:
सर्वे मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥</verse>
</page>