2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>

( ३५ )

<verse text="A" n="35">चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
</verse>

( ३६ )

<verse text="A" n="36">मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी।
आगत्य मां पालय विश्वनाथ
गोविन्द दामोदर माधवेति ॥
</verse>

(३७)

<verse text="A" n="37">वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वाऽतिभयादवोचद्
गोविन्द दामोदर माधवेति ॥
</verse>

( ३८ )

<verse text="A" n="38">सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
</verse>

( ३९ )

<verse text="A" n="39">सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
</verse>
</page>