2025-12-12 03:37:43 by akprasad
This page has been fully proofread once and needs a second look.
( ३५ )
चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर<error>माघवेति</error> <fix>माधवेति</fix>माधवेति ॥
( ३६ )
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी।
आगत्य मां पालय विश्वनाथ
गोविन्द दामोदर<error>माघवेति</error> <fix>माधवेति</fix>माधवेति ॥
(३७)
वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
<error>तत्राप्यदृष्ट्वातिभयादवोच्चद्</error> <fix>तत्राप्यदृष्ट्वाऽतिभयादवोचद्</fix>
गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>
गोविन्द दामोदर माधवेति ॥
( ३८ )
सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
( ३९ )
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर
( ३६ )
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी।
आगत्य मां पालय विश्वनाथ
गोविन्द दामोदर
(३७)
वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>
गोविन्द दामोदर माधवेति ॥
( ३८ )
सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
( ३९ )
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥