2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>

( ३० )

<verse text="A" n="30">जलाशये कालियमर्दनाय
यदा कदम्बादपतन्मुरारिः ।
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥
</verse>

( ३१ )

<verse text="A" n="31">अक्रूरमासाद्य यदा मुकुन्द-
श्चापोत्सवार्थं मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि
गोविन्द दामोदर माधवेति ॥
</verse>

( ३२ )

<verse text="A" n="32">कंसस्य दूतेन यदैव नीतौ
वृन्दावनान्ताद् वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये
गोविन्द दामोदर माधवेति ॥
</verse>

( ३३ )

<verse text="A" n="33">सरोवरे कालियनागबद्धं
शिशुं यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥
</verse>

( ३४ )

<verse text="A" n="34">अक्रूरयाने यदुवंशनाथं
संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥</verse>
</page>

( ३० )
<verse text="A" n="30">जलाशये कालियमर्दनाय
यदा कदम्बादपतन्मुरारिः ।
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥

( ३१ )
<verse text="A" n="31">अक्रूरमासाद्य यदा मुकुन्द-
श्चापोत्सवार्थं मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि
गोविन्द दामोदर माधवेति ॥

( ३२ )
<verse text="A" n="32">कंसस्य दूतेन यदैव नीतौ
वृन्दावनान्ताद् वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये
गोविन्द दामोदर माधवेति ॥

( ३३ )
<verse text="A" n="33">सरोवरे कालियनागबद्धं
शिशुं यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥

( ३४ )
<verse text="A" n="34">अक्रूरयाने यदुवंशनाथं
संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥</verse>
</page>