This page has been fully proofread once and needs a second look.

( ३० )
 
जलाशये कालियमर्दनाय
यदा कदम्बादपतन्मुरारिः ।
<error>गोपाङ्गनाश्चुकशुरेत्य</error> <fix>गोपाङ्गनाश्चुक्रुशुरेत्य</fix> गोपा
गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>माधवेति
 
( ३१ )
 
अक्रूरमासाद्य यदा मुकुन्द-
<error>श्रापोत्सवार्थ</error> <fix>श्चापोत्सवार्थं</fix> मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि
गोविन्द दामोदर माधवेति ॥
 
( ३२ )
 
कंसस्य दूतेन यदैव नीतौ
वृन्दावनान्ताद् वसुदेवसूनू ।
<error>करोद</error> <fix>रुरोद</fix> गोपी भवनस्य मध्ये
गोविन्द दामोदर माधवेति ॥
 
( ३३ )
 
सरोवरे कालियनागबद्धं
शिशुं यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥
 
( ३४ )
 
अक्रूरयाने यदुवंशनाथं
संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥