This page has been fully proofread once and needs a second look.

( २५ )
 
प्रबालशोभा इव दीर्घकेशा
वाताम्बुपर्णाशनपूतदेहाः ।
मूले तरूणां मुनयः पठन्ति
गोविन्द दामोदर माधवेति ॥
 
( २६ )
 
एवं ब्रुवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्य लज्जां रुरुदुः स्म <error>सुखरं</error> <fix>सुस्वरं</fix>
गोविन्द दामोदर माधवेति ॥
 
( २७ )
 
गोपी कदाचिन्मणिपिञ्जरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनन्दकन्द व्रजचन्द्र कृष्ण
गोविन्द दामोदर माधवेति ॥
 
( २८ )
 
गोवत्सबालैः शिशुकाकपक्षं
बध्नन्तमम्भोजदलायताक्षम् ।
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ॥
 
( २९ )
 
प्रभातकाले वरवल्लवौघा
गोरक्षणार्थं धृतवेत्रदण्डाः ।
आकारयामासुरनन्तमाद्यं
गोविन्द दामोदर माधवेति ॥