This page has been fully proofread once and needs a second look.

( २० )
 
क्रीडापरं भोजनमजनार्थ
हितैषिणी स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥
 
( २१ )
 
सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
 
( २२ )
 
विहाय निद्रामरुणोदये च
विधाय कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥
 
( २३ )
 
वृन्दावने गोपगणाश्च गोप्यो
विलोक्य <error>गोविन्दवियोगविन्नाम् </error> <fix>गोविन्दवियोगखिन्नाम्</fix>
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
 
( २४ )
 
प्रभातसञ्चारगता नु गाव-
स्तद्ररक्षणार्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥