2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>

( १५ )

<verse text="A" n="15">मन्दारमूले वदनाभिरामं
विम्बाघरे पूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं
गोविन्द दामोदर माधवेति ॥
</verse>

( १६ )

<verse text="A" n="16">उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति ॥
</verse>

( १७ )

<verse text="A" n="17">जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिकित्सयन्ती ।
उवाच सत्यं वद हे मुरारे
गोविन्द दामोदर माधवेति ॥
</verse>

( १८ )

<verse text="A" n="18">अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
प्रेमप्रवाहा दधि निर्ममन्थ ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति ॥
</verse>

( १९ )

<verse text="A" n="19">क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मन्थं युवती मुकुन्दम् ।
आलोक्य गानं विविधं करोति
गोविन्द दामोदर माधवेति ॥
</verse>
</page>