This page has been fully proofread once and needs a second look.

<page>

<title text="SSN">शिवसप्ततिनामस्तोत्रम्</title>

<verse text="SSN" n="1">देवानां श्रेष्ठ ईशानो भुवनस्याजरो वसुः ।

स्वधावान्सुहवो बभ्रुर्द्विबर्हा अरुषः कविः ॥ १ ॥</verse>
<verse text="SSN

<verse text="SSN" n="2
">जलाषभेषजो भूरिभूरेर्दाता भिषक्तमः ।

स्थिरधन्वा क्षयद्वीरो रुद्रो गाथपतिः स्विषुः ॥ २ ॥</verse>
<verse text="SSN

<verse text="SSN" n="3
">वेधाः सुधन्वा क्षिप्रेषुर्मरुत्वानसुरस्तवाः ।

त्वेषस्तिग्मायुधस्तव्यान्वज्रबाहुस्तवस्तमः ॥ ३ ॥</verse>
<verse text="SSN

<verse text="SSN" n="4
">उपहत्नुः कल्मलीकी सुषुम्नो गर्तसद्युवा ।

दिवो वराहो वृषभो वंकुः स्विक्वानृदूदरः ॥ ४ ॥</verse>
<verse text="SSN

<verse text="SSN" n="5
">स्वपिवातश्चेकितानः सुशिप्रः स्वयशाः श्रुतः ।

श्वित्सन्नृष्वः स्ववानेव यावभिः पशुपाः शुचिः ॥ ५ ॥</verse>
<verse text="SSN

<verse text="SSN" n="6
">सहमानो मेधपतिः प्रचेताः सत्पतिबृहन् ।

पुरुरूपः कपर्द्युग्रः सुगन्धिः पुष्टिवर्धनः ॥ ६ ॥</verse>
<verse text="SSN

<verse text="SSN" n="7
">शुक्रोऽषाह्ळो यज्ञसाधस्त्र्यम्बको मरुतां पिता ।

मीढ्वान्मीळ्हुष्टमो देवो भुवनस्य पिता शिवः ॥ ७ ॥</verse>
<verse text="SSN

<verse text="SSN" n="8
">इतीयं सप्ततिर्नाम्नां रुद्रस्य निगमोद्धृता ।

सर्वपापप्रशमनी सर्वाभीष्टप्रदायिनी ॥ ८ ॥</verse>

<trailer text="SSN">॥ इति वासिष्ठसङ्कलितं शिवसप्ततिनामस्तोत्रम् ॥</trailer>

</page>