This page has not been fully proofread.

<page>
<title text="SSN">
शिवसप्ततिनामस्तोत्रम्
 
</title>
<verse text="SSN" n="1">
देवानां श्रेष्ठ ईशानो भुवनस्याजरो वसुः ।
स्वधावान्सुहवो बभ्रुर्द्विबर्हा अरुषः कविः ॥ १
 
॥</verse>
<verse text="SSN">
जलाषभेषजो भूरिभूरेर्दाता भिषक्तमः ।
स्थिरधन्वा क्षयद्वीरो रुद्रो गाथपतिः स्विषुः ॥ २
 
॥</verse>
<verse text="SSN">
वेधाः सुधन्वा क्षिप्रेषुर्मरुत्वानसुरस्तवाः ।
त्वेषस्तिग्मायुधस्तव्यान्वज्रबाहुस्तवस्तमः ॥ ३ ॥
 
</verse>
<verse text="SSN">
उपहत्नुः कल्मलीकी सुषुम्नो गर्तसद्युवा ।
दिवो वराहो वृषभो वंकुः स्विक्वानृदूदरः ॥ ४ ॥
 
</verse>
<verse text="SSN">
स्वपिवातश्चेकितानः सुशिप्रः स्वयशाः श्रुतः ।
श्वित्सन्नृष्वः स्ववानेव यावभिः पशुपाः शुचिः ॥ ५
 
॥</verse>
<verse text="SSN">
सहमानो मेधपतिः प्रचेताः सत्पतिबृहन् ।
पुरुरूपः कपर्द्युग्रः सुगन्धिः पुष्टिवर्धनः ॥ ६ ॥
 
</verse>
<verse text="SSN">
शुक्रोऽषाह्ळो यज्ञसाधस्त्र्यम्बको मरुतां पिता ।
मीढ्वान्मीळ्हुष्टमो देवो भुवनस्य पिता शिवः ॥
 
॥</verse>
<verse text="SSN">
इतीयं सप्ततिर्नाम्नां रुद्रस्य निगमोद्धृता ।
सर्वपापप्रशमनी सर्वाभीष्टप्रदायिनी ॥ ८ ॥
 
</verse>
<trailer text="SSN">
॥ इति वासिष्ठसङ्कलितं शिवसप्ततिनामस्तोत्रम् ॥
 
</trailer>
</page>