This page has been fully proofread once and needs a second look.

शिवस्तवराजः
 

 
प्रभुमिह सन्तः प्रतिखगगोलम् ।

विदुरिममन्तर्विरचितशालम् ॥१७॥
 

 
इयमखिलाभ्यो बहुतरलीला ।

नरहृदयाख्या तव शिव शाला ॥ १८ ॥
 

 
द्वितीयो मुकुलवर्ग:
 

 
उद्दीप्यत् किरणं चित्रं श्रीशरणम् ।

कामारेश्चरणं भूयान्नः शरणम् ॥ १९ ॥
 

 
सत्यः कोऽपि शिवो नित्यः पालयिता ।

मध्ये यो जगतां स ध्येयः सततम् ॥ २० ॥
 

 
नास्त्येतस्य तनुर्वस्त्वे क्वापि न सः ।

मत्याऽभाणि पुनः सत्याधारपदम् ॥ २१॥
 

 
उक्तं सूक्ष्मतमं द्वेधैकं परमम् ।
 

रूपं रूपतया किञ्च स्थानतया ॥२२॥
 

 
सोऽणुः स्यादणुतो धातैषां जगताम् ।

तच्छक्तिर्महतो विज्ञेया महती ॥ २३ ॥
 

 
गत्वा तिष्ठति ना यत्स्वं हार्दपदम् ।

अग्राह्यस्य विभोस्तस्य ध्यानमिदम् ॥ २४ ॥
 

 
२३