This page has been fully proofread once and needs a second look.

२२
 

 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 

 
भरतधरित्रीं भुवननृपालः ।

अवतु दयालुः सितगिरिशालः ॥ ८ ॥
 

 
अरुणधरित्रीधर हर दूनाम् ।

भरतधरित्रीमव शिव दीनाम् ॥ ९ ॥
 

 
सतुहिनरोचिःशकलकमस्ते ।

सकरुणगौरीरमण नमस्ते ॥ १० ॥
 

 
हर भरतक्ष्माजनवरदूतम् ।

कुरु चरितार्थं गणपतिमेतम् ॥ ११ ॥
 

 
असि सितशैले हर हतगात्री ।

तव किमु दृष्ट्यां न भरतधात्री ॥ १२ ॥
 

 
पुरजित ईड्यं विलसति गुर्व्याम् ।

सितगिरिनाम स्थलमिदमुर्व्याम् ॥१३॥
 

 
स्थलमिदमच्छक्षितिधररूपम् ।

हृदयमिलाया अपहतपापम् ॥१४॥
 

 
हृदिव नराणां सितनगनाम ।

हृदपि धरायास्तव शिव धाम ॥ १५ ॥
 

 
क्षितिहृदये वा विलसति नित्यः ।

त्रिभुवनमध्ये शिव इति सत्यः ॥ १६ ॥